अष्टावक्र गीता चतुर्दशोऽध्यायः
जनक उवाच ॥
प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः । निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ॥ 14-1॥
क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः । क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ॥ 14-2॥
विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे । नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम ॥ 14-3॥
अंतर्विकल्पशून्यस्य बहिः स्वच्छंदचारिणः । भ्रांतस्येव दशास्तास्तास्तादृशा एव जानते ॥ 14-4॥
Browse Related Categories: