View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

नारायणीयं दशक 57

रामसखः क्वापि दिने कामद भगवन् गतो भवान् विपिनम् ।
सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥1॥

संदर्शयन् बलाय स्वैरं वृंदावनश्रियं विमलाम् ।
कांडीरैः सह बालैर्भांडीरकमागमो वटं क्रीडन् ॥2॥

तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
दैत्यः प्रलंबनामा प्रलंबबाहुं भवंतमापेदे ॥3॥

जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः ।
वटनिकटे पटुपशुपव्याबद्धं द्वंद्वयुद्धमारब्धाः ॥4॥

गोपान् विभज्य तन्वन् संघं बलभद्रकं भवत्कमपि ।
त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥5॥

कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥6॥

एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलंबो जहार तं दूरतो भवद्भीत्या ॥7॥

त्वद्दूरं गमयंतं तं दृष्ट्वा हलिनि विहितगरिमभरे ।
दैत्यः स्वरूपमागाद्यद्रूपात् स हि बलोऽपि चकितोऽभूत् ॥8॥

उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥9॥

हत्वा दानववीरं प्राप्तं बलमालिलिंगिथ प्रेम्णा ।
तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥10॥

आलंबो भुवनानां प्रालंबं निधनमेवमारचयन् ।
कालं विहाय सद्यो लोलंबरुचे हरे हरेः क्लेशान् ॥11॥




Browse Related Categories: