ॐ गोपालाय विद्महे गोपीजन वल्लभाय धीमहि ।
तन्नो गोपालः प्रचोदयात् ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं देवकी सुत गोविंद वासुदेव जगत्पते
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥
भूर्भुवस्सुवरोम् । इति दिग्विमोकः ॥
श्रीशं कमलपत्राक्षं देवकीनंदनं हरिम् ।
सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ॥ 1 ॥
नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् ।
यशोदांकगतं बालं गोपालं नंदनंदनम् ॥ 2 ॥
अस्माकं पुत्रलाभाय गोविंदं मुनिवंदितम् ।
नमाम्यहं वासुदेवं देवकीनंदनं सदा ॥ 3 ॥
गोपालं डिंभकं वंदे कमलापतिमच्युतम् ।
पुत्रसंप्राप्तये कृष्णं नमामि यदुपुंगवम् ॥ 4 ॥
पुत्रकामेष्टि फलदं कंजाक्षं कमलापतिम् ।
देवकीनंदनं वंदे सुतसंप्राप्तये त्वहम् (मम) ॥ 5 ॥
पद्मापते पद्मनेत्र पद्मनाभ जनार्दन ।
देहि मे तनयं श्रीश वासुदेव जगत्पते ॥ 6 ॥
यशोदांकगतं बालं गोविंदं मुनिवंदितम् ।
अनंत (अस्माकं) पुत्रलाभाय नमामि श्रीशमच्युतम् ॥ 7 ॥
भूतकृत्-भूतभृद्भावो भुतात्मा भूतभावनः (श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत) ।
गोविंद मे सुतं देहि नमामि त्वां जनार्दन ॥ 8 ॥
भक्तकामद गोविंद भक्तरक्ष शुभप्रद ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 9 ॥
रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा ।
भक्तमंदार पद्माक्ष त्वामहं शरणं गतः ॥ 10 ॥
देवकीसुत गोविंद वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 11 ॥
वासुदेव जगद्वंद्य श्रीपते पुरुषोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 12 ॥
कंजाक्ष कमलानाथ परकारुणिकोत्तम ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 13 ॥
लक्ष्मीपते पद्मनाभ मुकुंद मुनिवंदित ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 14 ॥
कार्यकारणरूपाय वासुदेवाय ते सदा ।
नमामि पुत्रलाभार्थं सुखदाय बुधाय ते ॥ 15 ॥
राजीवनेत्र श्रीराम रावणारे हरे कवे ।
तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥ 16 ॥
अनंत (अस्माकं) पुत्रलाभाय भजामि त्वां जगत्पते ।
देहि मे तनयं कृष्ण वासुदेव रमापते ॥ 17 ॥
श्रीमानिनी मानहारि (श्रीमानिनी मानचोर) गोपीवस्त्रापहारक ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ 18 ॥
अस्माकं पुत्रसंप्राप्तिं कुरुष्व यदुनंदन ।
रमापते वासुदेव मुकुंद मुनिवंदित ॥ 19 ॥
वासुदेव सुतं देहि तनयं देहि माधव ।
पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥ 20 ॥
डिंभकं देहि श्रीकृष्ण आत्मजं देहि राघव ।
भक्तमंदार मे देहि तनयं नंदनंदन ॥ 21 ॥
नंदनं देहि मे कृष्ण वासुदेव जगत्पते ।
कमलानाथ गोविंद मुकुंद मुनिवंदित ॥ 22 ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥ 23 ॥
यशोदास्तन्यपानज्ञं पिबंतं यदुनंदनम् ।
वंदेऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥ 24 ॥
नंदनंदन देवेश नंदनं देहि मे प्रभो ।
रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥ 25 ॥
पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव ।
अस्माकं दीनवाक्यं च (दीनवाक्यस्य) अवधारय श्रीपते ॥ 26 ॥
गोपाल डिंभ गोविंद वासुदेव रमापते ।
अस्माकं डिंभकं देहि श्रियं देहि जगत्पते ॥ 27 ॥
मद्वांछितफलं देहि देवकीनंदनाच्युत ।
मांद (मम) पुत्रार्थितं धन्यं कुरुष्व यदुनंदन ॥ 28 ॥
याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम् ।
भक्तचिंतामणे राम कल्पवृक्ष महाप्रभो ॥ 29 ॥
आत्मजं नंदनं पुत्रं कुमारं डिंभकं सुतम् ।
अर्भकं तनयं देहि सदा मे रघुनंदन ॥ 30 ॥
वंदे संतानगोपालं माधवं भक्तकामदम् ।
अस्माकं पुत्रसंप्राप्त्यै सदा गोविंदमच्युतम् ॥ 31 ॥
ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनंदनम् ।
क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ॥ 32 ॥
वासुदेव मुकुंदेश गोविंद माधवाच्युत ।
देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥ 33 ॥
राजीवनेत्र गोविंद कपिलाक्ष हरे प्रभो ।
समस्त काम्यवरद देहि मे तनयं सदा ॥ 34 ॥
पद्मनाभ श्यामपद्म बृंदरूप जगद्पते (अब्जपद्मनिभ पद्मवृंदरूप जगत्पते) ।
सत्पुत्रं (वरसत्पुत्रं) देहि मे देव रमानायक (रूपनायक) माधव ॥ 35 ॥
नंदपाल धरापाल गोविंद यदुनंदन ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 36 ॥
दासमंदार गोविंद मुकुंद माधवाच्युत ।
गोपाल पुंडरीकाक्ष देहि मे तनयं श्रियम् ॥ 37 ॥
यदुनायक पद्मेश नंदगोपवधूसुत ।
देहि मे तनयं कृष्ण श्रीराध (श्रीधर) प्राणनायक ॥ 38 ॥
अस्माकं वांछितं देहि देहि पुत्रं रमापते ।
स्तुवदाम् (भगवन्) कृष्ण सर्वेश वासुदेव जगत्पते ॥ 39 ॥
रमाहृदयसंभार सत्यभामामनःप्रिय ।
देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 40 ॥
चंद्रसूर्याक्ष गोविंद पुंडरीकाक्ष माधव ।
अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥ 41 ॥
कारुण्यरूप पद्माक्ष पद्मनाभ-समर्चित ।
देहि मे तनयं कृष्ण देवकीनंदनंदन ॥ 42 ॥
देवकीसुत श्रीनाथ वासुदेव जगत्पते ।
समस्तकामफलद देहि मे तनयं सदा ॥ 43 ॥
भक्तमंदार गंभीर शंकराच्युत माधव ।
देहि मे तनयं गोप-बालवत्सल रमापते (श्रीपते) ॥ 44 ॥
श्रीपते वासुदेवेश देवकीप्रियनंदन ।
भक्तमंदार मे देहि तनयं जगतां प्रभो ॥ 45 ॥
जगन्नाथ रमानाथ भूमिनाथ दयानिधे ।
वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥ 46 ॥
श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 47 ॥
दासमंदार गोविंद भक्तचिंतामणे प्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 48 ॥
गोविंद पुंडरीकाक्ष रमानाथ महाप्रभो ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 49 ॥
श्रीनाथ कमलपत्राक्ष गोविंद मधुसूदन ।
सत्पुत्रफल (मत्पुत्रफल)-सिद्ध्यर्थं भजामि त्वां जनार्दन ॥ 50 ॥
स्तन्यं पिबंतं जननीमुखांबुजं
विलोक्य मंदस्मितमुज्ज्वलांगम् ।
स्पृशंतमन्यस्तनमंगुलीभिः
वंदे यशोदांकगतं मुकुंदम् ॥ 51 ॥
याचेऽहं पुत्रसंतानं भवंतं पद्मलोचन ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 52 ॥
अस्माकं पुत्रसंपत्ते-श्चिंतयामि जगत्पते ।
शीघ्रं मे देहि दातव्यं भवता मुनिवंदित ॥ 53 ॥
वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम ।
कुरु मां पुत्रदत्तं च कृष्ण देवेंद्रपूजितः ॥ 54 ॥
कुरु मां पुत्रदत्तं च यशोदाप्रियनंदन ।
मह्यं च पुत्रसंतानं दातव्यं भवता हरे ॥ 55 ॥
वासुदेव जगन्नाथ गोविंद देवकीसुत ।
देहि मे तनयं राम कौसल्याप्रियनंदन ॥ 56 ॥
पद्मपत्राक्ष गोविंद विष्णो वामन माधव ।
देहि मे तनयं सीता-प्राणनायक राघव ॥ 57 ॥
कंजाक्ष कृष्ण देवेंद्र-मंडित मुनिवंदित ।
लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥ 58 ॥
देहि मे तनयं राम दशरथप्रियनंदन ।
सीतानायक कंजाक्ष मुचुकुंदवरप्रद ॥ 59 ॥
विभीषणाय या लंका भवता वलीयता प्रभो (विभीषणस्यया लंका प्रदत्ता भवता पुरा) ।
अस्माकं तत्प्रकारेण तनयं देहि माधव ॥ 60 ॥
भवदीयपदांभोजे चिंतयामि निरंतरम् ।
देहि मे तनयं सीता-प्राणवल्लभ राघव ॥ 61 ॥
राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद ।
देहि मे तनयं श्रीश कमलासनवंदित ॥ 62 ॥
राम राघव सीतेश लक्ष्मणानुज देहि मे ।
भाग्यवत्पुत्रसंतानं दशरथात्मज श्रीपते ॥ 63 ॥
देवकीगर्भसंजात यशोदाप्रियनंदन ।
देहि मे तनयं राम कृष्ण गोपाल माधव ॥ 64 ॥
कृष्ण माधव गोविंद वामनाच्युत शंकर ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 65 ॥
गोपबाल महाधन्य गोविंदाच्युत माधव ।
देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ 66 ॥
दिशतु दिशतु पुत्रं देवकीनंदनोऽयं
दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् ।
दिशतु दिशतु श्रीशो राघवो रामचंद्रो
दिशतु दिशतु पुत्रं वंशविस्तारहेतोः ॥ 67 ॥
ददातु मां वासुदेवोही (दीयतां वासुदेवेन) तनयोमत्प्रियः सुतम् (सुतः) ।
कुमारो नंदनः सीता-नायकॊ-विशदा मम (नायकेन सदा मम) ॥ 68 ॥
राम राघव गोविंद देवकीसुत माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 69 ॥
वंशविस्तारकं पुत्रं देहि मे मधुसूदन ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 70 ॥
ममाभीष्टसुतं देहि कंसारे माधवाच्युत ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 71 ॥
चंद्रार्क-कल्पपर्यंतं तनयं देहि माधव ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 72 ॥
विद्यावंतं बुद्धिमंतं श्रीमंतं तनयं सदा ।
देहि मे तनयं कृष्ण देवकीनंदनं सदा (देवकीनंदन प्रभो) ॥ 73 ॥
नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् ।
मुकुंदं पुंडरीकाक्षं गोविंदं मधुसूदनम् ॥ 74 ॥
भगवन् कृष्ण गोविंद सर्वकामफलप्रद ।
देहि मे तनयं स्वामिन् त्वामहं शरणं गतः ॥ 75 ॥
स्वामिन् त्वं भगवन् राम कृष्ण माधव कामद ।
देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥ 76 ॥
तनयं देहि गोविंद कंजाक्ष कमलापते ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 77 ॥
पद्मापते पद्मनेत्र पद्मजनक माधव (प्रद्युम्नजनक प्रभो) ।
सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 78 ॥
शंखचक्रगदाखड्ग शार्ङ्गपाणे रमापते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 79 ॥
नारायण रमानाथ राजीवपत्रलोचन ।
सुतं मे देहि देवेश पद्मपद्मानुवंदित ॥ 80 ॥
राम माधव गोविंद देवकीवरनंदन ।
रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥ 81 ॥
देवकीसुत गोविंद वासुदेव जगत्पते ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 82 ॥
मुनिवंदित गोविंद रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 83 ॥
गोपिका लूनपुष्पणां मकरंद रथप्रिय (गोपिकार्जितपंकेजमरंदासक्तमानस)।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः )॥ 84 ॥
र्रमा हृदय राजीव लोलमाधव कामद । (रमाहृदय पंकेजलोल माधव कामद)
ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥ 85 ॥
वासुदेव रमानाथ दासानां मंगलप्रद ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 86 ॥
कल्याणप्रद गोविंद मुरारे मुनिवंदित ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 87 ॥
पुत्रप्रद मुकुंदेश रुक्मिणीवल्लभ प्रभो ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 88 ॥
पुंडरीकाक्ष गोविंद वासुदेव जगत्पते ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 89 ॥
दयानिधे वासुदेव मुकुंद मुनिवंदित ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 90 ॥
पुत्रसंपत्प्रदातारं गोविंदं देवपूजितम् ।
वंदामहे सदा कृष्णं पुत्रलाभप्रदायिनम् ॥ 91 ॥
कारुण्यनिधये गोपीवल्लभाय मुरारये ।
नमस्ते पुत्रलाभार्थं देहि मे तनयं विभो ॥ 92 ॥
नमस्तस्मै रमेशाय रुक्मिणीवल्लभाय ते ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 93 ॥
नमस्ते वासुदेवाय नित्यश्रीकामुकाय च ।
पुत्रदाय च सर्पेंद्र....शायिने रंगशायिने ॥ 94 ॥
रंगशायिन् रमानाथ मंगलप्रद माधव ।
देहि मे तनयं श्रीश गोपबालकनायक ॥ 95 ॥
दासस्य मे सुतं देहि दीनमंदार राघव ।
सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥ 96 ॥
यशोदातनयाभीष्ट पुत्रदानरतः सदा ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 97 ॥
मदिष्टदेव गोविंद वासुदेव जनार्दन ।
देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 98 ॥
नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजापते ।
भगवंस्त्वत्कृपायाश्च वासुदेवेंद्रपूजित ॥ 99 ॥
यः पठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत् ।
श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥ 100 ॥
जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् ।
ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥ 101 ॥