View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री विष्णु पंजर स्तोत्रम्

ॐ अस्य श्रीविष्णुपंजरस्तोत्र महामंत्रस्य नारद ऋषिः । अनुष्टुप् छंदः । श्रीविष्णुः परमात्मा देवता । अहं बीजम् । सोहं शक्तिः । ॐ ह्रीं कीलकम् । मम सर्वदेहरक्षणार्थं जपे विनियोगः ।

नारद ऋषये नमः मुखे । श्रीविष्णुपरमात्मदेवतायै नमः हृदये । अहं बीजं गुह्ये । सोहं शक्तिः पादयोः । ॐ ह्रीं कीलकं पादाग्रे । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति मंत्रः ।

ॐ ह्रां अंगुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।

ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।
इति अंगन्यासः ।

अहं बीजं प्राणायामं मंत्रत्रयेण कुर्यात् ।

ध्यानम् ।
परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् ।
सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥ 1 ॥

ॐ विष्णुपंजरकं दिव्यं सर्वदुष्टनिवारणम् ।
उग्रतेजो महावीर्यं सर्वशत्रुनिकृंतनम् ॥ 2 ॥

त्रिपुरं दहमानस्य हरस्य ब्रह्मणो हितम् ।
तदहं संप्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ 3 ॥

पादौ रक्षतु गोविंदो जंघे चैव त्रिविक्रमः ।
ऊरू मे केशवः पातु कटिं चैव जनार्दनः ॥ 4 ॥

नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः ।
उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥ 5 ॥

वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः ।
बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥ 6 ॥

कंठं रक्षतु वाराहः कृष्णश्च मुखमंडलम् ।
माधवः कर्णमूले तु हृषीकेशश्च नासिके ॥ 7 ॥

नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः ।
कपोलौ केशवो रक्षेद्वैकुंठः सर्वतोदिशम् ॥ 8 ॥

श्रीवत्सांकश्च सर्वेषामंगानां रक्षको भवेत् ।
पूर्वस्यां पुंडरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ 9 ॥

दक्षिणे नारसिंहश्च नैरृत्यां माधवोऽवतु ।
पुरुषोत्तमो वारुण्यां वायव्यां च जनार्दनः ॥ 10 ॥

गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः ।
आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ 11 ॥

सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपंजरः ।
विष्णुपंजरविष्टोऽहं विचरामि महीतले ॥ 12 ॥

राजद्वारेऽपथे घोरे संग्रामे शत्रुसंकटे ।
नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥ 13 ॥

डाकिनीप्रेतभूतेषु भयं तस्य न जायते ।
रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ 14 ॥

रक्षंतु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः ।
जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥ 15 ॥

अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥
दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चंद्रमाः ॥ 16 ॥

पंथानं दुर्गमं रक्षेत्सर्वमेव जनार्दनः ।
रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥ 17 ॥

स्त्रीहंता बालघाती च सुरापो वृषलीपतिः ।
मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥ 18 ॥

अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ 19 ॥

आपदो हरते नित्यं विष्णुस्तोत्रार्थसंपदा ।
यस्त्विदं पठते स्तोत्रं विष्णुपंजरमुत्तमम् ॥ 20 ॥

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
गोसहस्रफलं तस्य वाजपेयशतस्य च ॥ 21 ॥

अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।
सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥ 22 ॥

जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ 23 ॥

इति श्रीब्रह्मांडपुराणे इंद्रनारदसंवादे श्रीविष्णुपंजरस्तोत्रम् ॥




Browse Related Categories: