View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मुंडक उपनिषद् - प्रथम मुंडक, द्वितीय कांडः

॥ प्रथममुंडके द्वितीयः खंडः ॥

तदेतत् सत्यं मंत्रेषु कर्माणि कवयो
यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि ।
तान्याचरथ नियतं सत्यकामा एष वः
पंथाः सुकृतस्य लोके ॥ 1॥

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाऽऽज्यभागावंतरेणाऽऽहुतीः प्रतिपादयेत् ॥ 2॥

यस्याग्निहोत्रमदर्शमपौर्णमास-
मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ।
अहुतमवैश्वदेवमविधिना हुत-
मासप्तमांस्तस्य लोकान् हिनस्ति ॥ 3॥

काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिंगिनी विश्वरुची च देवी
लेलायमाना इति सप्त जिह्वाः ॥ 4॥

एतेषु यश्चरते भ्राजमानेषु यथाकालं
चाहुतयो ह्याददायन् ।
तं नयंत्येताः सूर्यस्य रश्मयो यत्र
देवानां पतिरेकोऽधिवासः ॥ 5॥

एह्येहीति तमाहुतयः सुवर्चसः
सूर्यस्य रश्मिभिर्यजमानं वहंति ।
प्रियां वाचमभिवदंत्योऽर्चयंत्य
एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ 6॥

प्लवा ह्येते अदृढा यज्ञरूपा
अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनंदंति मूढा
जरामृत्युं ते पुनरेवापि यंति ॥ 7॥

अविद्यायामंतरे वर्तमानाः
स्वयं धीराः पंडितं मन्यमानाः ।
जंघन्यमानाः परियंति मूढा
अंधेनैव नीयमाना यथांधाः ॥ 8॥

अविद्यायं बहुधा वर्तमाना वयं
कृतार्था इत्यभिमन्यंति बालाः ।
यत् कर्मिणो न प्रवेदयंति रागात्
तेनातुराः क्षीणलोकाश्च्यवंते ॥ 9॥

इष्टापूर्तं मन्यमाना वरिष्ठं
नान्यच्छ्रेयो वेदयंते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं
लोकं हीनतरं वा विशंति ॥ 10॥

तपःश्रद्धे ये ह्युपवसंत्यरण्ये
शांता विद्वांसो भैक्ष्यचर्यां चरंतः ।
सूर्यद्वारेण ते विरजाः प्रयांति
यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ 11॥

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो
निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्
समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ 12॥

तस्मै स विद्वानुपसन्नाय सम्यक्
प्रशांतचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच
तां तत्त्वतो ब्रह्मविद्याम् ॥ 13॥

॥ इति मुंडकोपनिषदि प्रथममुंडके द्वितीयः खंडः ॥




Browse Related Categories: