View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः

॥ प्रथममुण्डके द्वितीयः खण्डः ॥

तदेत-थ्सत्य-म्मन्त्रेषु कर्माणि कवयो
यान्यपश्यंस्तानि त्रेताया-म्बहुधा सन्ततानि ।
तान्याचरथ नियतं सत्यकामा एष वः
पन्था-स्सुकृतस्य लोके ॥ 1॥

यदा लेलायते ह्यर्चि-स्समिद्धे हव्यवाहने ।
तदा-ऽऽज्यभागावन्तरेणा-ऽऽहुतीः प्रतिपादयेत् ॥ 2॥

यस्याग्निहोत्रमदर्​शमपौर्णमास-
मचातुर्मास्यमनाग्रयणमतिथिवर्जित-ञ्च ।
अहुतमवैश्वदेवमविधिना हुत-
मासप्तमांस्तस्य लोकान् हिनस्ति ॥ 3॥

काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी
लेलायमाना इति सप्त जिह्वाः ॥ 4॥

एतेषु यश्चरते भ्राजमानेषु यथाकालं
चाहुतयो ह्याददायन्न् ।
त-न्नयन्त्येता-स्सूर्यस्य रश्मयो यत्र
देवाना-म्पतिरेको-ऽधिवासः ॥ 5॥

एह्येहीति तमाहुतय-स्सुवर्चसः
सूर्यस्य रश्मिभिर्यजमानं-वँहन्ति ।
प्रियां-वाँचमभिवदन्त्यो-ऽर्चयन्त्य
एष वः पुण्य-स्सुकृतो ब्रह्मलोकः ॥ 6॥

प्लवा ह्येते अदृढा यज्ञरूपा
अष्टादशोक्तमवरं-येँषु कर्म ।
एतच्छ्रेयो ये-ऽभिनन्दन्ति मूढा
जरामृत्यु-न्ते पुनरेवापि यन्ति ॥ 7॥

अविद्यायामन्तरे वर्तमानाः
स्वय-न्धीराः पण्डित-म्मन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः ॥ 8॥

अविद्याय-म्बहुधा वर्तमाना वयं
कृतार्था इत्यभिमन्यन्ति बालाः ।
य-त्कर्मिणो न प्रवेदयन्ति रागात्
तेनातुराः, क्षीणलोकाश्च्यवन्ते ॥ 9॥

इष्टापूर्त-म्मन्यमाना वरिष्ठं
नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृते-ऽनुभूत्वेमं
लोकं हीनतरं-वाँ विशन्ति ॥ 10॥

तपस्श्रद्धे ये ह्युपवसन्त्यरण्ये
शान्ता विद्वांसो भैक्ष्यचर्या-ञ्चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति
यत्रामृत-स्स पुरुषो ह्यव्ययात्मा ॥ 11॥

परीक्ष्य लोकान् कर्मचिता-न्ब्राह्मणो
निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्
समित्पाणि-श्श्रोत्रिय-म्ब्रह्मनिष्ठम् ॥ 12॥

तस्मै स विद्वानुपसन्नाय सम्यक्
प्रशान्तचित्ताय शमान्विताय ।
येनाक्षर-म्पुरुषं-वेँद सत्य-म्प्रोवाच
ता-न्तत्त्वतो ब्रह्मविद्याम् ॥ 13॥

॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥




Browse Related Categories: