दक्षिणामूर्थि द्वादश नाम स्तोत्रम्
अथ दक्षिणामूर्तिद्वादशनामस्तोत्रं प्रथमं दक्षिणामूर्तिर्द्वितीयं मुनिसेवितः। ब्रह्मरूपी तृतीयं च चतुर्थं तु गुरूत्तमः। पंचमं वटमूलस्थः षष्ठं वेदप्रियस्तथा। सप्तमं तु महायोगी ह्यष्टमं त्रिजगद्गुरुः। नवमं च विशुद्धात्मा दशमं कामितार्थदः। एकादशं महातेजा द्वादशं मोक्षदायकः। द्वादशैतानि नामानि सर्वलोकगुरोः कलौ। यः पठेन्नित्यमाप्नोति नरो विद्यामनुत्तमां।
Browse Related Categories: