View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

संपूर्ण विश्वरत्नम्

संपूर्णविश्वरत्नं खलु भारतं स्वकीयम् ।
पुष्पं वयं तु सर्वे खलु देश वाटिकेयम् ॥

सर्वोच्च पर्वतो यो गगनस्य भाल चुंबी ।
सः सैनिकः सुवीरः प्रहरी च सः स्वकीयः ॥

क्रोडे सहस्रधारा प्रवहंति यस्य नद्यः ।
उद्यानमाभिपोष्यं भुविगौरवं स्वकीयम् ॥

धर्मस्य नास्ति शिक्षा कटुता मिथो विधेया ।
एके वयं तु देशः खलु भारतं स्वकीयम् ॥

संपूर्णविश्वरत्नं खलु भारतं स्वकीयम् ।
संपूर्णविश्वरत्नम् ।




Browse Related Categories: