| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
संक्षेप रामायणम् श्रीमद्वाल्मीकीय रामायणे बालकांडम् । तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । कोऽन्वस्मिन्सांप्रतं लोके गुणवान् कश्च वीर्यवान् । चारित्रेण च को युक्तः सर्वभूतेषु को हितः । आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः । एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे । श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः । बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः । इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः । महोरस्को महेष्वासो गूढजत्रुररिंदमः । समः समविभक्तांगः स्निग्धवर्णः प्रतापवान् । धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः । प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः । रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान्प्रतिभानवान् । सर्वदाभिगतः सद्भिः समुद्र इव सिंधुभिः । स च सर्वगुणोपेतः कौसल्यानंदवर्धनः । विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । धनदेन समस्त्यागे सत्ये धर्म इवापरः । ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् । यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः । पूर्वं दत्तवरा देवी वरमेनमयाचत । स सत्यवचनाद्राजा धर्मपाशेन संयतः । स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । तं व्रजंतं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् । जनकस्य कुले जाता देवमायेव निर्मिता । सीताऽप्यनुगता रामं शशिनं रोहिणी यथा । शृंगिबेरपुरे सूतं गंगाकूले व्यसर्जयत् । गुहेन सहितो रामः लक्ष्मणेन च सीतया । चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । देवगंधर्वसंकाशास्तत्र ते न्यवसन्सुखम् । राजा दशरथः स्वर्गं जगाम विलपन्सुतम् । नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः । गत्वा तु स महात्मानं रामं सत्यपराक्रमम् । त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः । निवर्तयामास ततो भरतं भरताग्रजः । नंदिग्रामेऽकरोद्राज्यं रामागमनकांक्षया । रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । प्रविश्य तु महारण्यं रामो राजीवलोचनः । सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ । ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् । प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् । तेन तत्रैव वसता जनस्थाननिवासिनी । ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् । निजघान रणे रामस्तेषां चैव पदानुगान् । रक्षसां निहतान्यासन्सहस्राणि चतुर्दश । सहायं वरयामास मारीचं नाम राक्षसम् । न विरोधो बलवता क्षमो रावण तेन ते । जगाम सहमारीचः तस्याश्रमपदं तदा । जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् । राघवः शोकसंतप्तो विललापाकुलेंद्रियः । मार्गमाणो वने सीतां राक्षसं संददर्श ह । तं निहत्य महाबाहुः ददाह स्वर्गतश्च सः । श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् । शबर्या पूजितः सम्यग्रामो दशरथात्मजः । हनुमद्वचनाच्चैव सुग्रीवेण समागतः । आदितस्तद्यथावृत्तं सीतयाश्च विशेषतः । चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् । रामायावेदितं सर्वं प्रणयाद्दुःखितेन च । वालिनश्च बलं तत्र कथयामास वानरः । राघवः प्रत्ययार्थं तु दुंदुभेः कायमुत्तमम् । उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः । बिभेद च पुनः सालान्सप्तैकेन महेषुणा । ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः । ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिंगलः । अनुमान्य तदा तारां सुग्रीवेण समागतः । ततः सुग्रीववचनाद्धत्वा वालिनमाहवे । स च सर्वान्समानीय वानरान्वानरर्षभः । ततो गृध्रस्य वचनात्संपातेर्हनुमान्बली । तत्र लंकां समासाद्य पुरीं रावणपालिताम् । निवेदयित्वाऽभिज्ञानं प्रवृत्तिं च निवेद्य च । पंच सेनाग्रगान्हत्वा सप्त मंत्रिसुतानपि । अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् । ततो दग्ध्वा पुरीं लंकां ऋते सीतां च मैथिलीम् । सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । ततः सुग्रीवसहितो गत्वा तीरं महोदधेः । दर्शयामास चात्मानं समुद्रः सरितां पतिः । तेन गत्वा पुरीं लंकां हत्वा रावणमाहवे । तामुवाच ततो रामः परुषं जनसंसदि । ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् । कर्मणा तेन महता त्रैलोक्यं सचराचरम् । अभिषिच्य च लंकायां राक्षसेंद्रं विभीषणम् । देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः । पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च सः । नंदिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः । प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः । न पुत्रमरणं किंचिद्द्रक्ष्यंति पुरुषाः क्वचित् । न चाग्निजं भयं किंचिन्नाप्सु मज्जंति जंतवः । न चापि क्षुद्भयं तत्र न तस्करभयं तथा । नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा । गवां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति । राजवंशान् शतगुणान् स्थापयिष्यति राघवः । दशवर्षसहस्राणि दशवर्षशतानि च । इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् । एतदाख्यानमायुष्यं पठन्रामायणं नरः । पठन् द्विजो वागृषभत्वमीयात् इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे नारदवाक्यं नाम प्रथमः सर्गः ॥
|