View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री राघवेंद्र मंगलाष्टकम्

श्रीमद्रामपादारविंदमधुपः श्रीमध्ववंशाधिपः
सच्चिष्योडुगणोडुपः श्रितजगद्गीर्वाणसत्पादपः ।
अत्यर्थं मनसा कृताच्युतजपः पापांधकारातपः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 1 ॥

कर्मंदींद्रसुधींद्रसद्गुरुकरांभोजोद्भवः संततं
प्राज्यध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीधवः ।
सच्छास्त्रादि विदूषकाखिलमृषावादीभकंठीरवः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 2 ॥

सालंकारककाव्यनाटककलाकाणादपातंजल-
त्रय्यर्थस्मृतिजैमिनीयकवितासंकीतपारंगतः ।
विप्रक्षत्रविडंघ्रिजातमुखरानेकप्रजासेवितः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 3 ॥

रंगोत्तुंगतरंगमंगलकर श्रीतुंगभद्रातट-
प्रत्यक्स्थद्विजपुंगवालय लसन्मंत्रालयाख्ये पुरे ।
नव्येंद्रोपलनीलभव्यकरसद्वृंदावनांतर्गतः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 4 ॥

विद्वद्राजशिरःकिरीटखचितानर्घ्योरुरत्नप्रभा
रागाघौघहपादुकाद्वयचरः पद्माक्षमालाधरः ।
भास्वद्दंटकमंडलूज्ज्वलकरो रक्तांबराडंबरः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 5 ॥

यद्वृंदावनसत्प्रदक्षिणनमस्काराभिषेकस्तुति-
ध्यानाराधनमृद्विलेपनमुखानेकोपचारान् सदा ।
कारं कारमभिप्रयांति चतुरो लोकाः पुमर्थान् सदा
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 6 ॥

वेदव्यासमुनीशमध्वयतिराट् टीकार्यवाक्यामृतं
ज्ञात्वाऽद्वैतमतं हलाहलसमं त्यक्त्वा समाख्याप्तये ।
संख्यावत्सुखदां दशोपनिषदां व्याख्यां समाख्यन्मुदा
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 7 ॥

श्रीमद्वैष्णवलोकजालकगुरुः श्रीमत्परिव्राड्गुरुः
शास्त्रे देवगुरुः श्रितामरतरुः प्रत्यूहगोत्रस्वरुः ।
चेतोऽतीतशिरुस्तथा जितवरुस्सत्सौख्यसंपत्करुः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 8 ॥

यस्संध्यास्वनिशं गुरोर्यतिपतेः सन्मंगलस्याष्टकं
सद्यः पापहरं स्वसेवि विदुषां भक्त्यैतदाभाषितम् ।
भक्त्या वक्ति सुसंपदं शुभपदं दीर्घायुरारोग्यकं
कीर्तिं पुत्रकलत्रबांधवसुहृन्मूर्तिः प्रयाति ध्रुवम् ॥

इति श्रीमदप्पणाचार्यकृतं राघवेंद्रमंगलाष्टकं संपूर्णम् ।




Browse Related Categories: