View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

महेन्द्र कृत महालक्ष्मी स्तोत्रं

महेन्द्र उवाच
नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ 1 ॥

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ 2 ॥

सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः ।
सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ 3 ॥

हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ।
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ 4 ॥

कृष्णशोभास्वरूपायै रत्नाढ्यायै नमो नमः ।
सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ 5 ॥

सस्याधिष्ठातृदेव्यै च सस्यलक्ष्म्यै नमो नमः ।
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ 6 ॥

वैकुण्ठे च महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ 7 ॥

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
सुरभिः सा गवां माता दक्षिणा यज्ञकामिनी ॥ 8 ॥

अदितिर्देवमाता त्वं कमला कमलालये ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ 9 ॥

त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायाणा ॥ 10 ॥

क्रोधहिंसावर्जिता च वरदा च शुभानना ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ 11 ॥

यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ 12 ॥

सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी ।
यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा ॥ 13 ॥

त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ 14 ॥

स्तनन्धयानां त्वं माता शिशूनां शैशवे यथा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वतः ॥ 15 ॥

त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ 16 ॥

सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ 17 ॥

वयं यावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः ।
सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥ 18 ॥

राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ।
कीर्तिं देहि धनं देहि पुत्रान्मह्यं च देहि वै ॥ 19 ॥

कामं देहि मतिं देहि भोगान् देहि हरिप्रिये ।
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥ 20 ॥

सर्वाधिकारमेवं वै प्रभावां च प्रतापकम् ।
जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ 21 ॥

इत्युक्त्वा तु महेन्द्रश्च सर्वैः सुरगणैः सह ।
ननाम साश्रुनेत्रोऽयं मूर्ध्ना चैव पुनः पुनः ॥ 22 ॥

ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ।
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ॥ 23 ॥

देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ।
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ॥ 24 ॥

ययुर्दैवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ।
देवी ययौ हरेः क्रोडं हृष्टा क्षीरोदशायिनः ॥ 25 ॥

ययतुस्तौ स्वस्वगृहं ब्रह्मेशानौ च नारद ।
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ 26 ॥

इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ।
कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् ॥ 27 ॥

सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरुर्नरः ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ 28 ॥

सिद्धस्तोत्रं यदि पठेन्मासमेकं च संयतः ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ 29 ॥

इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे एकोनचत्वारिंशत्तमोऽध्याये महेन्द्र कृत श्री महालक्ष्मी स्तोत्रम् ।




Browse Related Categories: