View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

चर्चा स्तवः

पञ्चस्तवि – 2 चर्चास्तवः >>

सौन्दर्यविभ्रमभुवो भुवनाधिपत्य-
-सङ्कल्पकल्पतरवस्त्रिपुरे जयन्ति ।
एते कवित्वकुमदप्रकरावबोध-
-पूर्णेन्दवस्त्वयि जगज्जननि प्रणामाः ॥ 1 ॥

देवि स्तुतिव्यतिकरे कृतबुद्धयस्ते
वाचस्पति प्रभृतयोऽपि जडी भवन्ति ।
तस्मान्निसर्गजडिमा कतमोऽहमत्र
स्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम् ॥ 2 ॥

मातस्तथापि भवतीं भवतीव्रताप-
-विच्छित्तये स्तुतिमहार्णव कर्णधारः ।
स्तोतुं भवानि स भवच्चरणारविन्द-
-भक्तिग्रहः किमपि मां मुखरी करोति ॥ 3 ॥

सूते जगन्ति भवती भवती बिभर्ति
जागर्ति तत्क्षयकृते भवती भवानि ।
मोहं भिनत्ति भवती भवती रुणद्धि
लीलायितं जयति चित्रमिदं भवत्याः ॥ 4 ॥

यस्मिन्मनागपि नवाम्बुजपत्रगौरीं
गौरीं प्रसादमधुरां दृशमादधासि ।
तस्मिन्निरन्तरमनङ्गशरावकीर्ण-
-सीमन्तिनीनयनसन्ततयः पतन्ति ॥ 5 ॥

पृथ्वीभुजोऽप्युदयनप्रभवस्य तस्य
विद्याधर प्रणति चुम्बित पादपीठः ।
तच्चक्रवर्तिपदवीप्रणयः स एषः
त्वत्पादपङ्कजरजः कणजः प्रसादः ॥ 6 ॥

त्वत्पादपङ्कजरज प्रणिपातपूर्वैः
पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः ।
क्षीरक्षपाकरदुकूलहिमावदाता
कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ 7 ॥

कल्पद्रुमप्रसवकल्पितचित्रपूजां
उद्दीपित प्रियतमामदरक्तगीतिम् ।
नित्यं भवानि भवतीमुपवीणयन्ति
विद्याधराः कनकशैलगुहागृहेषु ॥ 8 ॥

लक्ष्मीवशीकरणकर्मणि कामिनीनां
आकर्षणव्यतिकरेषु च सिद्धमन्त्रः ।
नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो
देवि त्वदङ्घ्रिजनितो जयति प्रसादः ॥ 9 ॥

देवि त्वदङ्घ्रिनखरत्नभुवो मयूखाः
प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति ।
सेवानतिव्यतिकरे सुरसुन्दरीणां
सीमन्तसीम्नि कुसुमस्तबकायितं यैः ॥ 10 ॥

मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं
मध्ये ललाटममरायुधरश्मिचित्रम् ।
हृच्चक्रचुम्बि हुतभुक्कणिकानुकारि
ज्योतिर्यदेतदिदमम्ब तव स्वरूपम् ॥ 11 ॥

रूपं तव स्फुरितचन्द्रमरीचिगौरं
आलोकते शिरसि वागधिदैवतं यः ।
निःसीमसूक्तिरचनामृतनिर्झरस्य
तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥ 12 ॥

सिन्दूरपांसुपटलच्छुरितामिव द्यां
त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ।
यः पश्यति क्षणमपि त्रिपुरे विहाय
व्रीडां मृडानि सुदृशस्तमनुद्रवन्ति ॥ 13 ॥

मातर्मुहूर्तमपि यः स्मरति स्वरूपं
लाक्षारसप्रसरतन्तुनिभं भवत्याः ।
ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः
प्रद्युम्नसीम्नि सुभगत्वगुणं तरुण्यः ॥ 14 ॥

योऽयं चकास्ति गगनार्णवरत्नमिन्दुः
योऽयं सुरासुरगुरुः पुरुषः पुराणः ।
यद्वाममर्धमिदमन्धकसूदनस्य
देवि त्वमेव तदिति प्रतिपादयन्ति ॥ 15 ॥

इच्छानुरूपमनुरूपगुणप्रकर्ष
सङ्कर्षिणि त्वमभिमृश्य यदा बिभर्षि ।
जायेत स त्रिभुवनैक गुरुस्तदानीं
देवः शिवोऽपि भुवनत्रयसूत्रधारः ॥ 16 ॥

ध्यातासि हैमवति येन हिमांशुरश्मि-
-मालामलद्युतिरकल्मषमानसेन ।
तस्याविलम्बमनवद्यमनन्तकल्पं
अल्पैर्दिनैः सृजसि सुन्दरि वाग्विलासम् ॥ 17 ॥

आधारमारुतनिरोधवशेन येषां
सिन्दूररञ्जितसरोजगुणानुकारि ।
दीप्तं हृदि स्फुरति देवि वपुस्त्वदीयं
ध्यायन्ति तानिह समीहितसिद्धिसार्थाः ॥ 18 ॥

ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति
रूपं तवाम्ब नवयावकपङ्कपिङ्गम् ।
तेषां सदैव कुसुमायुधबाणभिन्न-
-वक्षःस्थला मृगदृशो वशगा भवन्ति ॥ 19 ॥

त्वामैन्दवीमिव कलामनुफालदेशं
उद्भासिताम्बरतलामवलोकयन्तः ।
सद्यो भवानि सुधियः कवयो भवन्ति
त्वं भावनाहितधियां कुलकामधेनुः ॥ 20 ॥

शर्वाणि सर्वजनवन्दितपादपद्मे
पद्मच्छदद्युतिविडम्बितनेत्रलक्ष्मि ।
निष्पापमूर्तिजनमानसराजहंसि
हंसि त्वमापदमनेकविधां जनस्य ॥ 21 ॥

उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि
चेतश्चिरन्तनमघौघवनं लुनीहि ।
कारागृहे निगलबन्धनयन्त्रितस्य
त्वत्संस्मृतौ झटिति मे निगलास्त्रुटन्ति ॥ 22 ॥

त्वां व्यापिनीति सुमना इति कुण्डलीति
त्वां कामिनीति कमलेति कलावतीति ।
त्वां मालिनीति ललितेत्यपराजितेति
देवि स्तुवन्ति विजयेति जयेत्युमेति ॥ 23 ॥

उद्दामकामपरमार्थसरोजखण्ड-
चण्डद्युतिद्युतिमपासितषड्विकाराम् ।
मोहद्विपेन्द्रकदनोद्यतबोधसिंह-
-लीलागुहां भगवतीं त्रिपुरां नमामि ॥ 24 ॥

गणेशवटुकस्तुता रतिसहायकामान्विता
स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता ।
अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः
कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥ 25 ॥

रुद्राणि विद्रुममयीं प्रतिमामिव त्वां
ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् ।
तानेत्य पक्ष्मलदृशः प्रसभं भजन्ते
कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥ 26 ॥

त्वद्रूपैकनिरूपणप्रणयिताबन्धो दृशोस्त्वद्गुण-
-ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि ।
त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तितं वाचि मे
कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥ 27 ॥

त्वद्रूपमुल्लसितदाडिमपुष्परक्तं
उद्भावयेन्मदनदैवतमक्षरं यः ।
तं रूपहीनमपि मन्मथनिर्विशेषं
आलोकयन्त्युरुनितम्बतटास्तरुण्यः ॥ 28 ॥

ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि-
-स्कन्दद्विपाननहुताशनवन्दितायै ।
वागीश्वरि त्रिभुवनेश्वरि विश्वमातः
अन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ 29 ॥

कस्तोत्रमेतदनुवासरमीश्वरायाः
श्रेयस्करं पठति वा यदि वा शृणोति ।
तस्येप्सितं फलति राजभिरीड्यतेऽसौ
जायेत स प्रियतमो मदिरेक्षणानाम् ॥ 30 ॥

इति श्रीकालिदास विरचित पञ्चस्तव्यां द्वितीयः चर्चास्तवः ।




Browse Related Categories: