अस्य श्रीसिद्धलक्ष्मीस्तोत्रमन्त्रस्य हिरण्यगर्भ ऋषिः अनुष्टुप् छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं मम सर्वक्लेशपीडापरिहारार्थं सर्वदुःखदारिद्र्यनाशनार्थं सर्वकार्यसिद्ध्यर्थं श्रीसिद्धिलक्ष्मीस्तोत्र पाठे विनियोगः ॥
ऋष्यादिन्यासः
ॐ हिरण्यगर्भ ऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमो मुखे ।
श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमो हृदिः ।
श्रीं बीजाय नमो गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
क्लीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गेषु ॥
करन्यासः
ॐ श्रीं सिद्धलक्ष्म्यै अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं विष्णुतेजसे तर्जनीभ्यां नमः ।
ॐ क्लीं अमृतानन्दायै मध्यमाभ्यां नमः ।
ॐ श्रीं दैत्यमालिन्यै अनामिकाभ्यां नमः ।
ॐ ह्रीं तेजः प्रकाशिन्यै कनिष्ठिकाभ्यां नमः ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै करतल करपृष्ठाभ्यां नमः ॥
अङ्गन्यासः
ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः ।
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।
ॐ क्लीं अमृतानन्दायै शिखायै वषट् ।
ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् ।
ॐ ह्रीं तेजः प्रकाशिन्यै नेत्रत्रयाय वौषट् ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट् ॥
ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः इति दिग्बन्धः ॥
अथ ध्यानम्
ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् ।
त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम् ॥ 1 ॥
पीताम्बरधरां देवीं नानालङ्कारभूषिताम् ।
तेजःपुञ्जधरीं श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ 2 ॥
अथ स्तोत्रम्
ओङ्कारं लक्ष्मीरूपं तु विष्णुं वाग्भवमव्ययम् ।
विष्णुमानन्दमव्यक्तं ह्रीङ्कारं बीजरूपिणीम् ॥ 3 ॥
क्लीं अमृतानन्दिनीं भद्रां सत्यानन्ददायिनीम् ।
श्रीं दैत्यशमनीं शक्तिं मालिनीं शत्रुमर्दिनीम् ॥ 4 ॥
तेजः प्रकाशिनीं देवीं वरदां शुभकारिणीम् ।
ब्राह्मीं च वैष्णवीं रौद्रीं कालिकारूपशोभिनीम् ॥ 5 ॥
अकारे लक्ष्मीरूपं तु उकारे विष्णुमव्ययम् ।
मकारः पुरुषोऽव्यक्तो देवी प्रणव उच्यते ॥ 6 ॥
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
तन्मध्ये निकरं सूक्ष्मं ब्रह्मरुपं व्यवस्थितम् ॥ 7 ॥
ओङ्कारं परमानन्दं सदैव सुरसुन्दरीम् ।
सिद्धलक्ष्मी मोक्षलक्ष्मी आद्यलक्ष्मी नमोऽस्तु ते ॥ 8 ॥
श्रीङ्कारं परमं सिद्धं सर्वबुद्धिप्रदायकम् ।
सौभाग्याऽमृता कमला सत्यलक्ष्मी नमोऽस्तु ते ॥ 9 ॥
ह्रीङ्कारं परमं शुद्धं परमैश्वर्यदायकम् ।
कमला धनदा लक्ष्मी भोगलक्ष्मी नमोऽस्तु ते ॥ 10 ॥
क्लीङ्कारं कामरूपिण्यं कामनापरिपूर्तिदम् ।
चपला चञ्चला लक्ष्मी कात्यायनी नमोऽस्तु ते ॥ 11 ॥
श्रीङ्कारं सिद्धिरूपिण्यं सर्वसिद्धिप्रदायकम् ।
पद्माननां जगन्मात्रे अष्टलक्ष्मीं नमोऽस्तु ते ॥ 12 ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणी नमोऽस्तु ते ॥ 13 ॥
प्रथमं त्र्यम्बका गौरी द्वितीयं वैष्णवी तथा ।
तृतीयं कमला प्रोक्ता चतुर्थं सुन्दरी तथा ॥ 14 ॥
पञ्चमं विष्णुशक्तिश्च षष्ठं कात्यायनी तथा ।
वाराही सप्तमं चैव ह्यष्टमं हरिवल्लभा ॥ 15 ॥
नवमं खड्गिनी प्रोक्ता दशमं चैव देविका ।
एकादशं सिद्धलक्ष्मीर्द्वादशं हंसवाहिनी ॥ 16 ॥
उत्तरन्यासः
ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः ।
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।
ॐ क्लीं अमृतानन्दायै शिखायै वषट् ।
ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् ।
ॐ ह्रीं तेजः प्रकाशिन्यै नेत्रत्रयाय वौषट् ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट् ॥
ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः इति दिग्विमोकः ॥
अथ फलशृतिः
एतत् स्तोत्रवरं देव्या ये पठन्ति सदा नराः ।
सर्वापद्भ्यो विमुच्यन्ते नात्र कार्या विचारणा ॥ 17 ॥
एकमासं द्विमासं च त्रिमासं च चतुस्थथा ।
पञ्चमासं च षण्मासं त्रिकालं यः सदा पठेत् ॥ 18 ॥
ब्राह्मणः क्लेशितो दुःखी दारिद्र्यभयपीडितः ।
जन्मान्तर सहस्रोत्थैर्मुच्यते सर्वकिल्बषैः ॥ 19 ॥
दरिद्रो लभते लक्ष्मीमपुत्रः पुत्रवान् भवेत् ।
धन्यो यशस्वी शत्रुघ्नो वह्निचौरभयेषु च ॥ 20 ॥
शाकिनी भूत वेताल सर्प व्याघ्र निपातने ।
राजद्वारे सभास्थाने कारागृहनिबन्धने ॥ 21 ॥
ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारकम् ।
स्तुवन्तु ब्राह्मणाः नित्यं दारिद्र्यं न च बाधते ॥ 22 ॥
सर्वपापहरा लक्ष्मीः सर्वसिद्धिप्रदायिनीम् ।
साधकाः लभते सर्वं पठेत् स्तोत्रं निरन्तरम् ॥ 23 ॥
प्रार्थना
या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शङ्खे दैवकुले नरेन्द्रभवने गङ्गातटे गोकुले
सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
इति श्रीब्रह्मपुराणे ईश्वरविष्णुसंवादे श्री सिद्धलक्ष्मी स्तोत्रम् ॥