| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
श्री नरसिंह कवचम् नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा । सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् । विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् । चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् । तप्तकाञ्चनसङ्काशं पीतनिर्मलवासनम् । विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः । स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् । सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् । स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः । सर्वविद्याधिपः पातु नृसिंहो रसनां मम । नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरणान्तकृत् । करौ मे देववरदो नृसिंहः पातु सर्वतः । मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः । ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् । ऊरू मनोभवः पातु जानुनी नररूपधृक् । सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः । महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः । पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः । ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः । इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् । पुत्रवान् धनवान् लोके दीर्घायुरुपजायते । सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् । वृश्चिकोरगसम्भूतविषापहरणं परम् । भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् । देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् । सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति । कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते । तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् । प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् । किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् । गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् ।
|