View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

नारायण कवचम्

न्यासः

अङ्गन्यासः
ॐ ॐ पादयोः नमः ।
ॐ नं जानुनोः नमः ।
ॐ मों ऊर्वोः नमः ।
ॐ नां उदरे नमः ।
ॐ रां हृदि नमः ।
ॐ यं उरसि नमः ।
ॐ णां मुखे नमः ।
ॐ यं शिरसि नमः ।

करन्यासः
ॐ ॐ दक्षिणतर्जन्यां नमः ।
ॐ नं दक्षिणमध्यमायां नमः ।
ॐ मों दक्षिणानामिकायां नमः ।
ॐ भं दक्षिणकनिष्ठिकायां नमः ।
ॐ गं वामकनिष्ठिकायां नमः ।
ॐ वं वामानिकायां नमः ।
ॐ तें वाममध्यमायां नमः ।
ॐ वां वामतर्जन्यां नमः ।
ॐ सुं दक्षिणाङ्गुष्ठोर्ध्वपर्वणि नमः ।
ॐ दें दक्षिणाङ्गुष्ठाधः पर्वणि नमः ।
ॐ वां वामाङ्गुष्ठोर्ध्वपर्वणि नमः ।
ॐ यं वामाङ्गुष्ठाधः पर्वणि नमः ।

विष्णुषडक्षरन्यासः
ॐ ॐ हृदये नमः ।
ॐ विं मूर्ध्नै नमः ।
ॐ षं भ्रुर्वोर्मध्ये नमः ।
ॐ णं शिखायां नमः ।
ॐ वें नेत्रयोः नमः ।
ॐ नं सर्वसन्धिषु नमः ।
ॐ मः प्राच्यां अस्त्राय फट् ।
ॐ मः आग्नेय्यां अस्त्राय फट् ।
ॐ मः दक्षिणस्यां अस्त्राय फट् ।
ॐ मः नैऋत्ये अस्त्राय फट् ।
ॐ मः प्रतीच्यां अस्त्राय फट् ।
ॐ मः वायव्ये अस्त्राय फट् ।
ॐ मः उदीच्यां अस्त्राय फट् ।
ॐ मः ऐशान्यां अस्त्राय फट् ।
ॐ मः ऊर्ध्वायां अस्त्राय फट् ।
ॐ मः अधरायां अस्त्राय फट् ।

श्री हरिः

अथ श्रीनारायणकवच

राजोवाच
यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ 1 ॥

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ 2 ॥

श्री शुक उवाच
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ 3 ॥

श्रीविश्वरूप उवाच
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ 4 ॥

नारायणमयं वर्म सन्नह्येद्भय आगते ।
दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥ 5 ॥

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ।
मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ॥ 6 ॥

ॐ नमो नारायणायेति विपर्ययमथापि वा ।
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ॥ 7 ॥

प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ।
न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि ॥ 8 ॥

षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ।
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ॥ 9 ॥

मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ।
सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् ॥ 10 ॥

ॐ विष्णवे नमः ॥

इत्यात्मानं परं ध्यायेद्ध्येयं षट्छक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ 11 ॥

ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्ताङ्घ्रिपद्मः पतगेन्द्र पृष्ठे ।
दरारिचर्मासिगदेषुचाप-
-पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ 12 ॥

जलेषु मां रक्षतु मत्स्यमूर्ति-
-र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्या-
-त्त्रिविक्रमः खेऽवतु विश्वरूपः ॥ 13 ॥

दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ 14 ॥

रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ 15 ॥

मामुग्रधर्मादखिलात्प्रमादा-
-न्नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ 16 ॥

सनत्कुमारोऽवतु कामदेवा-
-द्धयाननो मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरा-
-त्कूर्मो हरिर्मां निरयादशेषात् ॥ 17 ॥

धन्वन्तरिर्भगवान्पात्वपथ्या-
-द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताज्जनान्ता-
-द्बलो गणात्क्रोधवशादहीन्द्रः ॥ 18 ॥

द्वैपायनो भगवानप्रबोधा-
-द्बुद्धस्तु पाषण्डगणात्प्रमादात् ।
कल्किः कलेः कालमलात्प्रपातु
धर्मावनायोरुकृतावतारः ॥ 19 ॥

मां केशवो गदया प्रातरव्या-
-द्गोविन्द आसङ्गवमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्ति-
-र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ 20 ॥

देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥ 21 ॥

श्रीवत्सधामाऽपररात्र ईशः
प्रत्युष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान्कालमूर्तिः ॥ 22 ॥

चक्रं युगान्तानलतिग्मनेमि
भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः ॥ 23 ॥

गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षो
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ 24 ॥

त्वं यातुधानप्रमथप्रेतमातृ-
-पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ 25 ॥

त्वं तिग्मधारासिवरारिसैन्य-
-मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मन् शतचन्द्र छादय
द्विषामघोनां हर पापचक्षुषाम् ॥ 26 ॥

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ॥ 27 ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ 28 ॥

गरुडो भगवान् स्तोत्रस्तोमश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ 29 ॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ 30 ॥

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ 31 ॥

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ 32 ॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ 33 ॥

विदिक्षु दिक्षूर्ध्वमधः समन्ता-
-दन्तर्बहिर्भगवान्नारसिंहः ।
प्रहापयँल्लोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः ॥ 34 ॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ 35 ॥

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ 36 ॥

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ 37 ॥

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ 38 ॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ 39 ॥

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्छिराः ।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्राप्य प्राच्यां सरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ 40 ॥

श्री शुक उवाच
य इदं शृणुयात्काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ 41 ॥

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ 42 ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे नारायणवर्मोपदेशो नामाष्टमोऽध्यायः ।




Browse Related Categories: