View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

रचयेम संस्कृतभवनं (ग्रामे नगरे समस्तराष्ट्रे)

ग्रामे नगरे समस्तराष्ट्रे
रचयेम संस्कृतभवनं
इष्टिकां विना मृत्तिकां विना
केवलसंभाषणविधया
संस्कृतसंभाषणकलया ॥

शिशुबालानां स्मितमृदुवचने
युवयुवतीनां मंजुभाषणे
वृद्धगुरूणां वत्सलहृदये
रचयेम संस्कृतभवनम् ॥ 1 ॥

अरुणोदयतः सुप्रभातं
शुभरात्रिं निशि संवदेम
दिवानिशं संस्कृतवचनेन
रचयेम संस्कृतभवनम् ॥ 2 ॥

सोदर-सोदरी-भाव-बंधुरं
मातृप्रेमतो बहुजनरुचिरं
वचनललितं श्रवणमधुरं
रचयेम संस्कृतभवनम् ॥ 3 ॥

मूलशिला संभाषणमस्य
हिंदुजनैक्यं शिखरमुन्नतं
सोपानं श्रवणादिविधानं
रचयेम संस्कृतभवनम् ॥ 4 ॥

रचन: गु. गणपय्यहोल्लः




Browse Related Categories: