View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

वंदे भारतमातरं वद, भारत

वंदे भारतमातरं वद, भारत ! वंदे मातरं
वंदे मातरं, वंदे मातरं, वंदे मातरम् ॥

जन्मभूरियं वीरवराणां त्यागधनानां धीराणां
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् ।
जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवतां
मातृसेवनादात्मजीवने सार्थकतामानीतवताम् ॥ 1 ॥

ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः ।
अर्थसंचयस्त्यागहेतुको धर्मसम्मतः काम इह ।
नश्वरबुद्धिः क्षणपरिवर्तिनि काये, आत्मन्यादरधीः
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम् ॥ 2 ॥

मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलं
नाहं कर्ता, कारयसि त्वं, निःस्पृहता मम कर्मफले ।
अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादपले
नान्यो मंत्रो नान्यचिंतनं नान्यद्देशहिताद्धि ॠते ॥ 3 ॥

रचन: श्री जनार्दन हेग्डे




Browse Related Categories: