View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री गुरुगीता प्रथमोध्यायः

श्रीगुरुभ्यो नमः ।
हरिः ओम् ।

ध्यानम्
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणं
विश्वोत्कीर्णमनेकदेहनिलयं स्वच्छंदमानंदकम् ।
आद्यंतैकमखंडचिद्घनरसं पूर्णं ह्यनंतं शुभं
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥

अथ प्रथमोऽध्यायः ॥

अचिंत्याव्यक्तरूपाय निर्गुणाय गणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ 1 ॥

ऋषय ऊचुः ।
सूत सूत महाप्राज्ञ निगमागमपारग ।
गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम् ॥ 2 ॥

यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते ।
येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे ॥ 3 ॥

यत्प्राप्य न पुनर्याति नरः संसारबंधनम् ।
तथाविधं परं तत्त्वं वक्तव्यमधुना त्वया ॥ 4 ॥

गुह्याद्गुह्यतमं सारं गुरुगीता विशेषतः ।
त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः ॥ 5 ॥

इति संप्रार्थितः सूतो मुनिसंघैर्मुहुर्मुहुः ॥

कुतूहलेन महता प्रोवाच मधुरं वचः ॥ 6 ॥

सूत उवाच ।
श्रुणुध्वं मुनयः सर्वे श्रद्धया परया मुदा ।
वदामि भवरोगघ्नीं गीतां मातृस्वरूपिणीम् ॥ 7 ॥

पुरा कैलासशिखरे सिद्धगंधर्वसेविते ।
तत्र कल्पलतापुष्पमंदिरेऽत्यंतसुंदरे ॥ 8 ॥

व्याघ्राजिने समासीनं शुकादिमुनिवंदितम् ।
बोधयंतं परं तत्त्वं मध्ये मुनिगणे क्वचित् ॥ 9 ॥

प्रणम्रवदना शश्वन्नमस्कुर्वंतमादरात् ।
दृष्ट्वा विस्मयमापन्न पार्वती परिपृच्छति ॥ 10 ॥

पार्वत्युवाच ।
ॐ नमो देव देवेश परात्पर जगद्गुरो ।
त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा ॥ 11 ॥

विधिविष्णुमहेंद्राद्यैर्वंद्यः खलु सदा भवान् ।
नमस्करोषि कस्मै त्वं नमस्काराश्रयः किल ॥ 12 ॥

दृष्ट्वैतत्कर्म विपुलमाश्चर्य प्रतिभाति मे ।
किमेतन्न विजानेऽहं कृपया वद मे प्रभो ॥ 13 ॥

भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् ।
ब्रूहि मे कृपया शंभो गुरुमाहात्म्यमुत्तमम् ॥ 14 ॥

केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् ।
तत्कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥ 15 ॥

इति संप्रार्थितः शश्वन्महादेवो महेश्वरः ।
आनंदभरितः स्वांते पार्वतीमिदमब्रवीत् ॥ 16 ॥

श्री महादेव उवाच ।
न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् ।
न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत् ॥ 17 ॥

मम रूपाऽसि देवि त्वमतस्तत्कथयामि ते ।
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ 18 ॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशंते महात्मनः ॥ 19 ॥

यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः ॥ 20 ॥

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् ।
गुरुब्रह्म विना नान्यः सत्यं सत्यं वरानने ॥ 21 ॥

वेदशास्त्रपुराणानि चेतिहासादिकानि च ।
मंत्रयंत्रादिविद्यानां मोहनोच्चाटनादिकम् ॥ 22 ॥

शैवशाक्तागमादीनि ह्यन्ये च बहवो मताः ।
अपभ्रंशाः समस्तानां जीवानां भ्रांतचेतसाम् ॥ 23 ॥

जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च ।
गुरुतत्त्वमविज्ञाय सर्वं व्यर्थं भवेत्प्रिये ॥ 24 ॥

गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं वरानने ।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यश्च मनीषिभिः ॥ 25 ॥

गूढाविद्या जगन्माया देहश्चाज्ञानसंभवः ।
विज्ञानं यत्प्रसादेन गुरुशब्देन कथ्यते ॥ 26 ॥

यदंघ्रिकमलद्वंद्वं द्वंद्वतापनिवारकम् ।
तारकं भवसिंधोश्च तं गुरुं प्रणमाम्यहम् ॥ 27 ॥

देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि तत् ।
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ॥ 28 ॥

सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः ।
गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन् ॥ 29 ॥

शोषणं पापपंकस्य दीपनं ज्ञानतेजसः ।
गुरोः पादोदकं सम्यक् संसारार्णवतारकम् ॥ 30 ॥

अज्ञानमूलहरणं जन्मकर्मनिवारकम् ।
ज्ञानवैराग्यसिद्ध्यर्थं गुरोः पादोदकं पिबेत् ॥ 31 ॥

गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं गुरोर्नाम सदा जपः ॥ 32 ॥

स्वदेशिकस्यैव च नामकीर्तनं
भवेदनंतस्य शिवस्य कीर्तनम् ।
स्वदेशिकस्यैव च नामचिंतनं
भवेदनंतस्य शिवस्य चिंतनम् ॥ 33 ॥

यत्पादांबुजरेणुर्वै कोऽपि संसारवारिधौ ।
सेतुबंधायते नाथं देशिकं तमुपास्महे ॥ 34 ॥

यदनुग्रहमात्रेण शोकमोहौ विनश्यतः ।
तस्मै श्रीदेशिकेंद्राय नमोऽस्तु परमात्मने ॥ 35 ॥

यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् ।
तस्मै श्रीदेशिकेंद्राय नमश्चाभीष्टसिद्धये ॥ 36 ॥

काशीक्षेत्रं निवासश्च जाह्नवी चरणोदकम् ।
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः ॥ 37 ॥

गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः ।
तत्पादं विष्णुपादं स्यात् तत्र दत्तमनस्ततम् ॥ 38 ॥

गुरुमूर्तिं स्मरेन्नित्यं गुरोर्नाम सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ॥ 39 ॥

गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतिं यथा ॥ 40 ॥

स्वाश्रमं च स्वजातिं च स्वकीर्तिं पुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत् ॥ 41 ॥

अनन्याश्चिंतयंतो ये सुलभं परमं सुखम् ।
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ 42 ॥

गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते ।
त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः ॥ 43 ॥

गुकारश्चांधकारो हि रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ 44 ॥

गुकारश्चांधकारस्तु रुकारस्तन्निरोधकृत् ।
अंधकारविनाशित्वाद्गुरुरित्यभिधीयते ॥

गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत् ।
भवरोगहरत्वाच्च गुरुरित्यभिधीयते ॥ 45 ॥

गुकारश्च गुणातीतो रूपातीतो रुकारकः ।
गुणरूपविहीनत्वात् गुरुरित्यभिधीयते ॥ 46 ॥

गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारोऽस्ति परं ब्रह्म मायाभ्रांतिविमोचकम् ॥ 47 ॥

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
हाहाहूहूगणैश्चैव गंधर्वाद्यैश्च पूजितम् ॥ 48 ॥

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् ।
गुरोराराधनं कुर्यात् स्वजीवत्वं निवेदयेत् ॥ 49 ॥

आसनं शयनं वस्त्रं वाहनं भूषणादिकम् ।
साधकेन प्रदातव्यं गुरुसंतोषकारणम् ॥ 50 ॥

कर्मणा मनसा वाचा सर्वदाऽऽराधयेद्गुरुम् ।
दीर्घदंडं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ 51 ॥

शरीरमिंद्रियं प्राणमर्थस्वजनबांधवान् ।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ 52 ॥

गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम् ॥ 53 ॥

सर्वश्रुतिशिरोरत्नविराजितपदांबुजम् ।
वेदांतार्थप्रवक्तारं तस्मात् संपूजयेद्गुरुम् ॥ 54 ॥

यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
स एव सर्वसंपत्तिः तस्मात्संपूजयेद्गुरुम् ॥ 55 ॥

[पाठभेदः -
कृमिकोटिभिराविष्टं दुर्गंधमलमूत्रकम् ।
श्लेष्मरक्तत्वचामांसैर्नद्धं चैतद्वरानने ॥
]
कृमिकोटिभिराविष्टं दुर्गंधकुलदूषितम् ।
अनित्यं दुःखनिलयं देहं विद्धि वरानने ॥ 56 ॥

संसारवृक्षमारूढाः पतंति नरकार्णवे ।
यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः ॥ 57 ॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ 58 ॥

अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 59 ॥

अखंडमंडलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 60 ॥

स्थावरं जंगमं व्याप्तं यत्किंचित्सचराचरम् ।
त्वं पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 61 ॥

चिन्मयव्यापितं सर्वं त्रैलोक्यं सचराचरम् ।
असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 62 ॥

निमिषान्निमिषार्धाद्वा यद्वाक्याद्वै विमुच्यते ।
स्वात्मानं शिवमालोक्य तस्मै श्रीगुरवे नमः ॥ 63 ॥

चैतन्यं शाश्वतं शांतं व्योमातीतं निरंजनम् ।
नादबिंदुकलातीतं तस्मै श्रीगुरवे नमः ॥ 64 ॥

निर्गुणं निर्मलं शांतं जंगमं स्थिरमेव च ।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ 65 ॥

स पिता स च मे माता स बंधुः स च देवता ।
संसारमोहनाशाय तस्मै श्रीगुरवे नमः ॥ 66 ॥

यत्सत्त्वेन जगत्सत्त्वं यत्प्रकाशेन भाति तत् ।
यदानंदेन नंदंति तस्मै श्रीगुरवे नमः ॥ 67 ॥

यस्मिन् स्थितमिदं सर्वं भाति यद्भानरूपतः ।
प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥ 68 ॥

येनेदं दर्शितं तत्त्वं चित्तचैत्यादिकं तथा ।
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥ 69 ॥

यस्य ज्ञानमिदं विश्वं न दृश्यं भिन्नभेदतः ।
सदैकरूपरूपाय तस्मै श्रीगुरवे नमः ॥ 70 ॥

यस्य ज्ञातं मतं तस्य मतं यस्य न वेद सः ।
अनन्यभावभावाय तस्मै श्रीगुरवे नमः ॥ 71 ॥

यस्मै कारणरूपाय कार्यरूपेण भाति यत् ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ 72 ॥

नानारूपमिदं विश्वं न केनाप्यस्ति भिन्नता ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ 73 ॥

ज्ञानशक्तिसमारूढतत्त्वमालाविभूषिणे ।
भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ 74 ॥

अनेकजन्मसंप्राप्तकर्मबंधविदाहिने ।
ज्ञानानलप्रभावेन तस्मै श्रीगुरवे नमः ॥ 75 ॥

शोषणं भवसिंधोश्च दीपनं क्षरसंपदाम् ।
गुरोः पादोदकं यस्य तस्मै श्रीगुरवे नमः ॥ 76 ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
न गुरोरधिकं ज्ञानं तस्मै श्रीगुरवे नमः ॥ 77 ॥

मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
ममाऽऽत्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 78 ॥

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरुमंत्रसमो नास्ति तस्मै श्रीगुरवे नमः ॥ 79 ॥

एक एव परो बंधुर्विषमे समुपस्थिते ।
गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः ॥ 80 ॥

गुरुमध्ये स्थितं विश्वं विश्वमध्ये स्थितो गुरुः ।
गुरुर्विश्वं न चान्योऽस्ति तस्मै श्रीगुरवे नमः ॥ 81 ॥

भवारण्यप्रविष्टस्य दिङ्मोहभ्रांतचेतसः ।
येन संदर्शितः पंथाः तस्मै श्रीगुरवे नमः ॥ 82 ॥

तापत्रयाग्नितप्तानामशांतप्राणिनां मुदे ।
गुरुरेव परा गंगा तस्मै श्रीगुरवे नमः ॥ 83 ॥

[पाठभेदः -
अज्ञानेनाहिना ग्रस्ताः प्राणिनस्तान् चिकित्सकः ।
विद्यास्वरूपो भगवांस्तस्मै श्रीगुरवे नमः ॥
]
अज्ञानसर्पदष्टानां प्राणिनां कश्चिकित्सकः ।
सम्यग्​ज्ञानमहामंत्रवेदिनं सद्गुरु विना ॥ 84 ॥

हेतवे जगतामेव संसारार्णवसेतवे ।
प्रभवे सर्वविद्यानां शंभवे गुरवे नमः ॥ 85 ॥

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मंत्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा ॥ 86 ॥

सप्तसागरपर्यंततीर्थस्नानफलं तु यत् ।
गुरोः पादोदबिंदोश्च सहस्रांशे न तत्फलम् ॥ 87 ॥

शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
लब्ध्वा कुलगुरुं सम्यग्गुरुमेव समाश्रयेत् ॥ 88 ॥

मधुलुब्धो यथा भृंगः पुष्पात्पुष्पांतरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वंतरं व्रजेत् ॥ 89 ॥

वंदे गुरुपदद्वंद्वं वाङ्मनातीतगोचरम् ।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥ 90 ॥

गुकारं च गुणातीतं रूकारं रूपवर्जितम् ।
गुणातीतमरूपं च यो दद्यात्स गुरुः स्मृतः ॥ 91 ॥

अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः ।
योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥ 92 ॥

अयं मयांजलिर्बद्धो दयासागरसिद्धये ।
यदनुग्रहतो जंतुश्चित्रसंसारमुक्तिभाक् ॥ 93 ॥

श्रीगुरोः परमं रूपं विवेकचक्षुरग्रतः ।
मंदभाग्या न पश्यंति अंधाः सूर्योदयं यथा ॥ 94 ॥

कुलानां कुलकोटीनां तारकस्तत्र तत्​क्षणात् ।
अतस्तं सद्गुरुं ज्ञात्वा त्रिकालमभिवादयेत् ॥ 95 ॥

श्रीनाथचरणद्वंद्वं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये ॥ 96 ॥

साष्टांगप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् ।
भजनात् स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ॥ 97 ॥

दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टांग उच्यते ॥ 98 ॥

तस्यै दिशे सततमंजलिरेष नित्यं
प्रक्षिप्यतां मुखरितैर्मधुरैः प्रसूनैः ।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती
विश्वस्थितिप्रलयनाटकनित्यसाक्षी ॥ 99 ॥

अभ्यस्तैः किमु दीर्घकालविमलैर्व्याधिप्रदैर्दुष्करैः
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः ।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्​क्षणात्
प्राप्तुं तत्सहजस्वभावमनिशं सेवेत चैकं गुरुम् ॥ 100 ॥

ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः ।
गुरोस्समानतो नान्यत् साधनं गुरुमार्गिणाम् ॥ 101 ॥

यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव सत्यमाराधयेद्गुरुम् ॥ 102 ॥

गुरोः कृपाप्रसादेन ब्रह्मविष्णुमहेश्वराः ।
सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यंतकर्मणि ॥ 103 ॥

देवकिन्नरगंधर्वाः पितृयक्षास्तु तुंबुरः ।
मुनयोऽपि न जानंति गुरुशुश्रूषणे विधिम् ॥ 104 ॥

तार्किकाश्छांदसाश्चैव दैवज्ञाः कर्मठाः प्रिये ।
लौकिकास्ते न जानंति गुरुतत्त्वं निराकुलम् ॥ 105 ॥

महाहंकारगर्वेण ततोविद्याबलेन च ।
भ्रमंति चास्मिन् संसारे घटीयंत्रं यथा पुनः ॥ 106 ॥

यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ता योगिनस्तथा ।
तापसा अपि नो मुक्ता गुरुतत्त्वात्पराङ्मुखाः ॥ 107 ॥

न मुक्तास्तु च गंधर्वाः पितृयक्षास्तु चारणाः ।
ऋषयः सिद्धदेवाद्या गुरुसेवापराङ्मुखाः ॥ 108 ॥

इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे
श्री गुरुगीतायां प्रथमोऽध्यायः ॥




Browse Related Categories: