View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

गीतगोविंदं नवमः सर्गः - मंद मुकुंदः

॥ नवमः सर्गः ॥
॥ मंदमुकुंदः ॥

तामथ मन्मथखिन्नां रतिरसभिन्नां विषादसंपन्नाम् ।
अनुचिंतितहरिचरितां कलहांतरितमुवाच सखी ॥ 51 ॥

॥ गीतं 18 ॥

हरिरभिसरति वहति मधुपवने ।
किमपरमधिकसुखं सखि भुवने ॥
माधवे मा कुरु मानिनि मानमये ॥ 1 ॥

तालफलादपि गुरुमतिसरसम् ।
किं विफलीकुरुषे कुचकलशम् ॥ 2 ॥

कति न कथितमिदमनुपदमचिरम् ।
मा परिहर हरिमतिशयरुचिरम् ॥ 3 ॥

किमिति विषीदसि रोदिषि विकला ।
विहसति युवतिसभा तव सकला ॥ 4 ॥

सजलनलिनीदलशीतलशयने ।
हरिमवलोक्य सफलय् नयने ॥ 5 ॥

जनयसि मनसि किमिति गुरुखेदम् ।
शृणु मम वचनमनीहितभेदम् ॥ 6 ॥

हरिरुपयातु वदतु बहुमधुरम् ।
किमिति करोषि हृदयमतिविधुरम् ॥ 7 ॥

श्रीजयदेवभणितमतिललितम् ।
सुखयतु रसिकजनं हरिचरितम् ॥ 8 ॥

स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
युक्तं तद्विपरीतकारिणि तव श्रीखंडचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ 52 ॥

॥ इति गीतगोविंदे कलहांतरितावर्णने मंदमुकुंदो नाम नवमः सर्गः ॥




Browse Related Categories: