अष्टावक्र गीता अष्टमोऽध्यायः
अष्टावक्र उवाच ॥
तदा बन्धो यदा चित्तं किञ्चिद् वाञ्छति शोचति । किञ्चिन् मुञ्चति गृह्णाति किञ्चिद्धृष्यति कुप्यति ॥ 8-1॥
तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति । न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति ॥ 8-2॥
तदा बन्धो यदा चित्तं सक्तं कास्वपि दृष्टिषु । तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु ॥ 8-3॥
यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा । मत्वेति हेलया किञ्चिन्मा गृहाण विमुञ्च मा ॥ 8-4॥
Browse Related Categories: