ध्यानम् ।
कैलासाचल मध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादिप्रार्थनाप्राप्तदिव्यमानुषविग्रहम् ॥
भक्तानुग्रहणैकान्तशान्तस्वान्तसमुज्ज्वलम् ।
संयज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥
किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् ।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥
ॐ श्रीशङ्कराचार्यवर्याय नमः ।
ॐ ब्रह्मानन्दप्रदायकाय नमः ।
ॐ अज्ञानतिमिरादित्याय नमः ।
ॐ सुज्ञानाम्बुधिचन्द्रमसे नमः ।
ॐ वर्णाश्रमप्रतिष्ठात्रे नमः ।
ॐ श्रीमते नमः ।
ॐ मुक्तिप्रदायकाय नमः ।
ॐ शिष्योपदेशनिरताय नमः ।
ॐ भक्ताभीष्टप्रदायकाय नमः ।
ॐ सूक्ष्मतत्त्वरहस्यज्ञाय नमः ॥ 10 ॥
ॐ कार्याकार्यप्रबोधकाय नमः ।
ॐ ज्ञानमुद्राञ्चितकराय नमः ।
ॐ शिष्यहृत्तापहारकाय नमः ।
ॐ परिव्राजाश्रमोद्धर्त्रे नमः ।
ॐ सर्वतन्त्रस्वतन्त्रधिये नमः ।
ॐ अद्वैतस्थापनाचार्याय नमः ।
ॐ साक्षाच्छङ्कररूपधृते नमः ।
ॐ षण्मतस्थापनाचार्याय नमः ।
ॐ त्रयीमार्गप्रकाशकाय नमः ।
ॐ वेदवेदान्ततत्त्वज्ञाय नमः ॥ 20 ॥
ॐ दुर्वादिमतखण्डनाय नमः ।
ॐ वैराग्यनिरताय नमः ।
ॐ शान्ताय नमः ।
ॐ संसारार्णवतारकाय नमः ।
ॐ प्रसन्नवदनाम्भोजाय नमः ।
ॐ परमार्थप्रकाशकाय नमः ।
ॐ पुराणस्मृतिसारज्ञाय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ महते नमः ।
ॐ शुचये नमः ॥ 30 ॥
ॐ नित्यानन्दाय नमः ।
ॐ निरातङ्काय नमः ।
ॐ निस्सङ्गाय नमः ।
ॐ निर्मलात्मकाय नमः ।
ॐ निर्ममाय नमः ।
ॐ निरहङ्काराय नमः ।
ॐ विश्ववन्द्यपदाम्बुजाय नमः ।
ॐ सत्त्वप्रधानाय नमः ।
ॐ सद्भावाय नमः ।
ॐ सङ्ख्यातीतगुणोज्वलाय नमः ॥ 40 ॥
ॐ अनघाय नमः ।
ॐ सारहृदयाय नमः ।
ॐ सुधिये नमः ।
ॐ सारस्वतप्रदाय नमः ।
ॐ सत्यात्मने नमः ।
ॐ पुण्यशीलाय नमः ।
ॐ साङ्ख्ययोगविचक्षणाय नमः ।
ॐ तपोराशये नमः ।
ॐ महातेजसे नमः ।
ॐ गुणत्रयविभागविदे नमः ॥ 50 ॥
ॐ कलिघ्नाय नमः ।
ॐ कालकर्मज्ञाय नमः ।
ॐ तमोगुणनिवारकाय नमः ।
ॐ भगवते नमः ।
ॐ भारतीजेत्रे नमः ।
ॐ शारदाह्वानपण्डिताय नमः ।
ॐ धर्माधर्मविभागज्ञाय नमः ।
ॐ लक्ष्यभेदप्रदर्शकाय नमः ।
ॐ नादबिन्दुकलाभिज्ञाय नमः ।
ॐ योगिहृत्पद्मभास्कराय नमः ॥ 60 ॥
ॐ अतीन्द्रियज्ञाननिधये नमः ।
ॐ नित्यानित्यविवेकवते नमः ।
ॐ चिदानन्दाय नमः ।
ॐ चिन्मयात्मने नमः ।
ॐ परकायप्रवेशकृते नमः ।
ॐ अमानुषचरित्राढ्याय नमः ।
ॐ क्षेमदायिने नमः ।
ॐ क्षमाकराय नमः ।
ॐ भव्याय नमः ।
ॐ भद्रप्रदाय नमः ॥ 70 ॥
ॐ भूरिमहिम्ने नमः ।
ॐ विश्वरञ्जकाय नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ सदाधाराय नमः ।
ॐ विश्वबन्धवे नमः ।
ॐ शुभोदयाय नमः ।
ॐ विशालकीर्तये नमः ।
ॐ वागीशाय नमः ।
ॐ सर्वलोकहितोत्सुकाय नमः ।
ॐ कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकाय नमः ॥ 80 ॥
ॐ काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षिताय नमः ।
ॐ श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथाय नमः ।
ॐ श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः ।
ॐ चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः ।
ॐ महामतये नमः ।
ॐ द्विसप्ततिमतोच्चेत्रे नमः ।
ॐ सर्वदिग्विजयप्रभवे नमः ।
ॐ काषायवसनोपेताय नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ ज्ञानात्मकैकदण्डाढ्याय नमः ॥ 90 ॥
ॐ कमण्डलुलसत्कराय नमः ।
ॐ गुरुभूमण्डलाचार्याय नमः ।
ॐ भगवत्पादसञ्ज्ञकाय नमः ।
ॐ व्याससन्दर्शनप्रीताय नमः ।
ॐ ऋष्यशृङ्गपुरेश्वराय नमः ।
ॐ सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः ।
ॐ चतुष्षष्टिकलाभिज्ञाय नमः ।
ॐ ब्रह्मराक्षसमोक्षदाय नमः ।
ॐ श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः ।
ॐ तोटकाचार्यसम्पूज्याय नमः ॥ 100 ॥
ॐ पद्मपादार्चिताङ्घ्रिकाय नमः ।
ॐ हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकाय नमः ।
ॐ सुरेश्वराख्यसच्चिष्यसन्न्यासाश्रमदायकाय नमः ।
ॐ नृसिंहभक्ताय नमः ।
ॐ सद्रत्नगर्भहेरम्बपूजकाय नमः ।
ॐ व्याख्यासिंहासनाधीशाय नमः ।
ॐ जगत्पूज्याय नमः ।
ॐ जगद्गुरवे नमः ॥ 108 ॥