मनो निवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका च
ज्ञानप्रवाहा विमलादिगङ्गा सा काशिकाहं निजबोधरूपा ॥ 1 ॥
यस्यामिदं कल्पितमिन्द्रजालं चराचरं भाति मनोविलासं
सच्चित्सुखैका परमात्मरूपा सा काशिकाहं निजबोधरूपा ॥ 2 ॥
कोशेषु पञ्चस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहं
साक्षी शिवः सर्वगतोऽन्तरात्मा सा काशिकाहं निजबोधरूपा ॥ 3 ॥
काश्या हि काशत काशी काशी सर्वप्रकाशिका
सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥ 4 ॥
काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा
भक्ति श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः
विश्वेशोऽयं तुरीयः सकलजनमनः साक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥ 5 ॥
॥ इति श्रीमच्छङ्कराचार्यविरचिता काशी पञ्चकं प्रयाताष्टकम् ॥