॥ श्रीशङ्कराचार्यस्तवः ॥
श्रीशङ्कराचार्यवर्यं सर्वलोकैकवन्द्यं भजे देशिकेन्द्रम्
धर्मप्रचारेऽतिदक्षं योगिगोविन्दपादाप्तसन्यासदीक्षम् ।
दुर्वादिगर्वापनोदं पद्मपादादिशिष्यालिसंसेव्यपादम् ॥1॥
(श्रीशङ्कराचार्यवर्यं)
शङ्काद्रिदम्भोलिलीलं किङ्कराशेषशिष्यालि सन्त्राणशीलम् ।
बालार्कनीकाशचेलं बोधिताशेषवेदान्त गूढार्थजालम् ॥2॥
(श्रीशङ्कराचार्यवर्यं)
रुद्राक्षमालाविभूषं चन्द्रमौलीश्वराराधनावाप्ततोषम् ।
विद्राविताशेषदोषं भद्रपूगप्रदं भक्तलोकस्य नित्यम् ॥3॥
(श्रीशङ्कराचार्यवर्यं)
पापाटवीचित्रभानुं ज्ञानदीपेन हार्दं तमो वारयन्तम् ।
द्वैपायनप्रीतिभाजं सर्वतापापहामोघबोधप्रदं तम् ॥4॥
(श्रीशङ्कराचार्यवर्यं)
राजाधिराजाभिपूज्यं रम्यशृङ्गाद्रिवासैकलोलं यतीड्यम् ।
राकेन्दुसङ्काशवक्त्रं रत्नगर्भेभवक्त्राङ्घ्रिपूजानुरक्तम् ॥5॥
(श्रीशङ्कराचार्यवर्यं)
श्रीभारतीतीर्थगीतं शङ्करार्यस्तवं यः पठेद्भक्तियुक्तः ।
सोऽवाप्नुयात्सर्वमिष्टं शङ्कराचार्यवर्यप्रसादेन तूर्णम् ॥6॥
(श्रीशङ्कराचार्यवर्यं)