View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

गणेश चतुर्थि पूजा विधानम्, व्रत कल्पं

प्रार्थन
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न वदनं ध्यायेत्सर्व विघ्नोपशांतये ॥

अयं मुहूर्तस्सुमुहूर्तोऽस्तु ।
तदेव लग्नं सुदिनं तदेव, ताराबलं चंद्रबलं तदेव, विद्याबलं दैवबलं तदेव, लक्ष्मीपते तेंघ्रियुगं स्मरामि, सुमुहूर्तोऽस्तु ।

यश्शिवो नामरूपानभ्यां यादेवी सर्वमंगला ।
तयोस्संस्मरणात्पुंसां सर्वतो जय मंगलम् ॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिंदीवरश्ष्यामो हृदयस्थोजनार्थनः ॥

आपदामपहर्तारं दातारं सर्वसंपदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयोनमाम्यहम् ॥

सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्नराजो गणाधिपः ॥

धूम्रकेतु-र्गणाध्यक्षो फालचंद्रो गजाननः ।
वक्रतुंड-श्शूर्पकर्णो हेरंब-स्स्कंदपूर्वजः ॥

षोडशैतानि नामानि यः पठे-च्छृणु-यादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ॥

अभीप्सितार्थ सिद्ध्यर्थं पूजितो यस्सुरैरपि ।
सर्वविघ्नच्चिदेतस्मै श्री महागणाधिपतये नमः ॥

ॐ श्रीलक्ष्मी नारायणाभ्यां नमः ।
ॐ उमामहेश्वराभ्यां नमः ।
ॐ वाणी हिरण्यगर्भाभ्यां नमः ।
ॐ शचीपुरंदराभ्यां नमः ।
ॐ अरुंधती वशिष्ठाभ्यां नमः ।
ॐ श्री सितारामाभ्यां नमः ॥
नमस्सर्वेभ्यों महाजनेभ्यः अयं मुहूर्त-स्सुमुहूर्तोऽस्तु ॥

शरीर शुद्धि
अपवित्रः पवित्रो वा सर्वावस्थां᳚ गतोऽपिवा ।
यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतर श्शुचिः ॥
पुंडरीकाक्ष ! पुंडरीकाक्ष ! पुंडरीकाक्षाय नमः ।

आचमनः
ॐ आचम्य
ॐ केशवाय स्वाहा
ॐ नारायणाय स्वाहा
ॐ माधवाय स्वाहा (इति त्रिराचम्य)
ॐ गोविंदाय नमः (पाणी मार्जयित्वा)
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः (ओष्ठौ मार्जयित्वा)
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः (शिरसि जलं प्रोक्ष्य)
ॐ श्रीधराय नमः
ॐ हृषीकेशाय नमः (वामहस्तॆ जलं प्रोक्ष्य)
ॐ पद्मनाभाय नमः (पादयोः जलं प्रोक्ष्य)
ॐ दामोदराय नमः (शिरसि जलं प्रोक्ष्य)
ॐ संकर्षणाय नमः (अंगुलिभिश्चिबुकं जलं प्रोक्ष्य)
ॐ वासुदेवाय नमः
ॐ प्रद्युम्नाय नमः (नासिकां स्पृष्ट्वा)
ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अधोक्षजाय नमः
ॐ नारसिंहाय नमः (नेत्रे श्रोत्रे च स्पृष्ट्वा)
ॐ अच्युताय नमः (नाभिं स्पृष्ट्वा)
ॐ जनार्धनाय नमः (हृदयं स्पृष्ट्वा)
ॐ उपेंद्राय नमः (हस्तं शिरसि निक्षिप्य)
ॐ हरये नमः
ॐ श्रीकृष्णाय नमः (अंसौ स्पृष्ट्वा)
ॐ श्रीकृष्ण परब्रह्मणे नमो नमः

भूतोच्चाटन
उत्तिष्ठंतु । भूत पिशाचाः । ये ते भूमिभारकाः । ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ॐ भूर्भुवस्सुवः ।
दैवी गायत्री चंदः प्राणायामे विनियोगः

प्राणायामः
ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् ।
ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥

संकल्पः
ममोपात्त, दुरित क्षयद्वारा, श्री परमेश्वर-मुद्दिस्य, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभने, अभ्युदय मुहूर्ते, श्री महाविष्णो राज्ञया, प्रवर्त मानस्य, अद्य ब्रह्मणः, द्वितीय परार्थे, श्वेतवराह कल्पे, वैवश्वत मन्वंतरे, कलियुगे, प्रथम पादे, (भारत देशः - जंबू द्वीपे, भरत वर्षे, भरत खंडे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका - क्रौंच द्वीपे, रमणक वर्षे, ऐंद्रिक खंडे, सप्त समुद्रांतरे, कपिलारण्ये), शोभन गृहे, समस्त देवता ब्राह्मण, हरिहर गुरुचरण सन्निथौ, अस्मिन्, वर्तमान, व्यावहारिक, चांद्रमान, ... संवत्सरे, ... अयने, ... ऋते, ... मासे, ... पक्षे, ... तिथौ, ... वासरे, ... शुभ नक्षत्र, शुभ योग, शुभ करण, एवंगुण, विशेषण, विशिष्ठायां, शुभ तिथौ, श्रीमान्, ... गोत्रः, ... नामधेयः, ... गोत्रस्य, ... नामधेयोहं ... मम धर्मपत्नी समेतस्य, अस्माकं सहकुटुंबस्य, क्षेमस्थैर्य विजय अभय आयुरारोग्य ऐश्वर्याभिवृध्ह्यर्थं, धर्मार्थ काम मोक्ष चतुर्विध फल पुरुषार्थ सिद्द्यर्थं, पुत्रपौत्राभिवृद्ध्यर्थं सकलकार्येषु सर्वदा दिग्विजयसिद्ध्यर्थं, श्री वरसिद्धि विनायक देवता मुद्धिस्य श्री वरसिद्धि विनायक देवता प्रीत्यर्थं कल्पोक्त प्रकारेण यावच्छक्ति ध्यानावाहनादि षोडशोपचारपूजां करिष्ये ।

कलश पूज
कलशस्य मुखे विष्णुः कंठे रुद्र-स्समाहितः ।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्मृताः ॥

कुक्षौतु सागराः सर्वे सप्तद्व्वीपा वसुंधरा ।
ऋग्वेदोध यजुर्वेद-स्सामवेदो-ह्यधर्वणः ॥
अंगैश्च सहितास्सर्वे कलशांबु समाश्रिताः ।

गंगे च यमुने चैव गोदावरि सरस्वती ।
नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥

आयांतु देवपूजार्थं दुरितक्षयकारकाः ।
(कलशोदकेन पूजाद्रव्याणि, आत्मानं, देवं च संप्रोक्ष्य)

ॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नां उप॒मश्र॑वस्तवम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

श्री वरसिद्धि विनायक देवताये नमः ।
अथ प्राणप्रतिष्ठापनं करिष्ये ।

षोडशोपचार पूजा

प्रार्थन
भवसंचितपापौघविध्वंसनविचक्षणम् ।
विघ्नांधकारभास्वंतं विघ्नराजमहं भजे ॥

एकदंतं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ।
पाशांकुशधरं देवं ध्यायेत्सिद्धिविनायकम् ॥

उत्तमं गणनाथस्य व्रतं संपत्करं शुभम् ।
भक्ताभीष्टप्रदं तस्माद्ध्यायेत्तं विघ्ननायकम् ॥

षोडसोपचार पूजा

ध्यानं
ध्यायेद्गजाननं देवं तप्तकांचनसन्निभम् ।
चतुर्भुजं महाकायं सर्वाभरणभूषितम् ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः ध्यायामि ।

आवाहनं
अत्रागच्छ जगद्वंद्य सुरराजार्चितेश्वर ।
अनाथनाथ सर्वज्ञ गौरीगर्भसमुद्भव ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः आवाहयामि ।

आसनं
मौक्तिकैः पुष्परागैश्च नानारत्नैर्विराजितम् ।
रत्नसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः आसनं समर्पयामि ।

अर्घ्यं
गौरीपुत्र नमस्तेऽस्तु शंकरप्रियनंदन ।
गृहाणार्घ्यं मया दत्तं गंधपुष्पाक्षतैर्युतम् ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः अर्घ्यं समर्पयामि ।

पाद्यं
गजवक्त्र नमस्तेऽस्तु सर्वाभीष्टप्रदायक ।
भक्त्या पाद्यं मया दत्तं गृहाण द्विरदानन ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः पाद्यं समर्पयामि ।

आचमनीयं
अनाथनाथ सर्वज्ञ गीर्वाणवरपूजित ।
गृहाणाचमनं देव तुभ्यं दत्तं मया प्रभो ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः आचमनीयं समर्पयामि ।

मधुपर्कं
दधिक्षीरसमायुक्तं मध्वाज्येन समन्वितम् ।
मधुपर्कं गृहाणेदं गजवक्त्र नमोऽस्तु ते ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः मधुपर्कं समर्पयामि ।

पंचामृत स्नानं
स्नानं पंचामृतैर्देव गृहाण गणनायक ।
अनाथनाथ सर्वज्ञ गीर्वाणगणपूजित ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः पंचामृत स्नानं समर्पयामि ।

शुद्धोदक स्नानं
गंगादिसर्वतीर्थेभ्य आहृतैरमलैर्जलैः ।
स्नानं कुरुष्य भगवन्नुमापुत्र नमोऽस्तु ते ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानंतरं आचमनीयं समर्पयामि ।

वस्त्रं
रक्तवस्त्रद्वयं चारु देवयोग्यं च मंगलम् ।
शुभप्रद गृहाण त्वं लंबोदर हरात्मज ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतं
राजतं ब्रह्मसूत्रं च कांचनं चोत्तरीयकम् ।
गृहाण देव सर्वज्ञ भक्तानामिष्टदायक ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः यज्ञोपवीतं समर्पयामि ।

गंधं
चंदनागरु कर्पूर कस्तूरी कुंकुमान्वितम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः श्रीगंधान् धारयामि ।

अक्षतान्
अक्षतान् धवलान् दिव्यान् शालीयांस्तंडुलान् शुभान् ।
गृहाण परमानंद शंभुपुत्र नमोऽस्तु ते ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः अलंकरणार्थं अक्षतान् समर्पयामि ।

पुष्पाणि
सुगंधानि च पुष्पाणि जातीकुंदमुखानि च ।
एकविंशतिपत्राणि संगृहाण नमोऽस्तु ते ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः पुष्पैः पूजयामि ।

अथांगपूजा
ओओ गणेशाय नमः - पादौ पूजयामि ।
ओओ एकदंताय नमः - गुल्फौ पूजयामि ।
ओओ शूर्पकर्णाय नमः - जानुनी पूजयामि ।
ओओ विघ्नराजाय नमः - जंघे पूजयामि ।
ओओ आखुवाहनाय नमः - ऊरूं पूजयामि ।
ओओ हेरंबाय नमः - कटिं पूजयामि ।
ओओ लंबोदराय नमः - उदरं पूजयामि ।
ओओ गणनाथाय नमः - नाभिं पूजयामि ।
ओओ गणेशाय नमः - हृदयं पूजयामि ।
ओओ स्थूलकंठाय नमः - कंठं पूजयामि ।
ओओ स्कंदाग्रजाय णमह श्कंधौ पोओजयामि ।
ओओ पाशहस्ताय णमह हस्थौ पोओजयामि ।
ओओ गजवक्त्राय नमः - वक्त्रं पूजयामि ।
ओओ विघ्नहंत्रे नमः - नेत्रं पूजयामि ।
ओओ शूर्पकर्णाय नमः - कर्णौ पूजयामि ।
ओओ फालचंद्राय नमः - ललाटं पूजयामि ।
ओओ सर्वेश्वराय नमः - शिरः पूजयामि ।
ओओ विघ्नराजाय नमः - सर्वांगाणि पूजयामि ।

अथैकविंशति पत्रपूज
सुमुखायनमः - माचीपत्रं पूजयामि (दर्भ) ।
गणाधिपाय नमः - बृहतीपत्रं पूजयामि ।
उमापुत्राय नमः - बिल्वपत्रं पूजयामि (मारेडु) ।
गजाननाय नमः - दुर्वायुग्मं पूजयामि(गरिक) ।
हरसूनवेनमः - दत्तूरपत्रं पूजयामि (उम्मॆत्त) ।
लंबोदरायनमः - बदरीपत्रं पूजयामि (रेगु) ।
गुहाग्रजायनमः - अपामार्गपत्रं पूजयामि (उत्तरेणि) ।
गजकर्णायनमः - तुलसीपत्रं पूजयामि ।
एकदंताय नमः - चूतपत्रं पूजयामि (आम्र) ।
विकटाय नमः - करवीरपत्रं पूजयामि (गन्नेरु)।
भिन्नदंताय नमः - विष्णुक्रांतपत्रं पूजयामि ।
वटवेनमः - दाडिमीपत्रं पूजयामि (दानिम्म) ।
सर्वेश्वरायनमः - देवदारुपत्रं पूजयामि ।
फालचंद्राय नमः - मरुवकपत्रं पूजयामि ।
हेरंबायनमः - सिंधुवारपत्रं पूजयामि ।
शूर्पकर्णायनमः - जाजीपत्रं पूजयामि ।
सुराग्रजायनमः - गंडकीपत्रं पूजयामि ।
इभवक्त्रायनमः - शमीपत्रं पूजयामि (जम्मि) ।
विनायकाय नमः - अश्वत्थपत्रं पूजयामि (रावि) ।
सुरसेविताय नमः - अर्जुनपत्रं पूजयामि (मद्दि) ।
कपिलाय नमः - अर्कपत्रं पूजयामि (जिल्लेडु) ।
श्री गणेश्वराय नमः - एकविंशति पत्राणि पूजयामि ।

एकविंशति पुष्प पूजा
ॐ पंचास्य गणपतये नमः - पुन्नाग पुष्पं समर्पयामि ।
ॐ महा गणपतये नमः - मंदार पुष्पं समर्पयामि ।
ॐ धीर गणपतये नमः - दाडिमी पुष्पं समर्पयामि ।
ॐ विष्वक्सेन गणपतये नमः - वकुल पुष्पं समर्पयामि ।
ॐ आमोद गणपतये नमः - अमृणाल(तामर) पुष्पं समर्पयामि ।
ॐ प्रमथ गणपतये नमः - पाटली पुष्पं समर्पयामि ।
ॐ रुद्र गणपतये नमः - द्रोण पुष्पं समर्पयामि ।
ॐ विद्या गणपतये नमः - धत्तूर पुष्पं समर्पयामि ।
ॐ विघ्न गणपतये नमः - चंपक पुष्पं समर्पयामि ।
ॐ दुरित गणपतये नमः - रसाल पुष्पं समर्पयामि ।
ॐ कामितार्थप्रद गणपतये नमः - केतकी पुष्पं समर्पयामि ।
ॐ सम्मोह गणपतये नमः - माधवी पुष्पं समर्पयामि ।
ॐ विष्णु गणपतये नमः - शम्याक पुष्पं समर्पयामि ।
ॐ ईश गणपतये नमः - अर्क पुष्पं समर्पयामि ।
ॐ गजास्य गणपतये नमः - कल्हार पुष्पं समर्पयामि ।
ॐ सर्वसिद्धि गणपतये नमः - सेवंतिका पुष्पं समर्पयामि ।
ॐ वीर गणपतये नमः - बिल्व पुष्पं समर्पयामि ।
ॐ कंदर्प गणपतये नमः - करवीर पुष्पं समर्पयामि ।
ॐ उच्छिष्ठ गणपतये नमः - कुंद पुष्पं समर्पयामि ।
ॐ ब्रह्म गणपतये नमः - पारिजात पुष्पं समर्पयामि ।
ॐ ज्ञान गणपतये नमः - जाती पुष्पं समर्पयामि ।

एकविंशति दूर्वायुग्म पूजा
ॐ गणाधिपाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ पाशांकुशधराय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ आखुवाहनाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ विनायकाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ ईशपुत्राय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ सर्वसिद्धिप्रदाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ एकदंताय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ इभवक्त्राय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ मूषकवाहनाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ कुमारगुरवे नमः - दूर्वायुग्मं समर्पयामि ।
ॐ कपिलवर्णाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ ब्रह्मचारिणे नमः - दूर्वायुग्मं समर्पयामि ।
ॐ मोदकहस्ताय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ सुरश्रेष्ठाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ गजनासिकाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ कपित्थफलप्रियाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ गजमुखाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ सुप्रसन्नाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ सुराग्रजाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ उमापुत्राय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ स्कंदप्रियाय नमः - दूर्वायुग्मं समर्पयामि ।

ॐ श्री सिद्धिविनायक स्वामिने नमः नानाविध पत्र पुष्पाणि समर्पयामि ।

श्री विनायक अष्टोत्तर शत नाम पूजा
ॐ गजाननाय नमः
ॐ गणाध्यक्षाय नमः
ॐ विघ्नराजाय नमः
ॐ विनायकाय नमः
ॐ द्वैमातुराय नमः
ॐ द्विमुखाय नमः
ॐ प्रमुखाय नमः
ॐ सुमुखाय नमः
ॐ कृतिने नमः
ॐ सुप्रदीप्ताय नमः (10)
ॐ सुखनिधये नमः
ॐ सुराध्यक्षाय नमः
ॐ सुरारिघ्नाय नमः
ॐ महागणपतये नमः
ॐ मान्याय नमः
ॐ महाकालाय नमः
ॐ महाबलाय नमः
ॐ हेरंबाय नमः
ॐ लंबजठराय नमः
ॐ ह्रस्वग्रीवाय नमः (20)
ॐ प्रथमाय नमः
ॐ प्राज्ञाय नमः
ॐ प्रमोदाय नमः
ॐ मोदकप्रियाय नमः
ॐ विघ्नकर्त्रे नमः
ॐ विघ्नहंत्रे नमः
ॐ विश्वनेत्रे नमः
ॐ विराट्पतये नमः
ॐ श्रीपतये नमः
ॐ वाक्पतये नमः (30)
ॐ शृंगारिणे नमः
ॐ आश्रितवत्सलाय नमः
ॐ शिवप्रियाय नमः
ॐ शीघ्रकारिणे नमः
ॐ शाश्वताय नमः
ॐ बल्वान्विताय नमः
ॐ बलोद्दताय नमः
ॐ भक्तनिधये नमः
ॐ भावगम्याय नमः
ॐ भावात्मजाय नमः (40)
ॐ अग्रगामिने नमः
ॐ मंत्रकृते नमः
ॐ चामीकर प्रभाय नमः
ॐ सर्वाय नमः
ॐ सर्वोपास्याय नमः
ॐ सर्वकर्त्रे नमः
ॐ सर्वनेत्रे नमः
ॐ सर्वसिद्धिप्रदाय नमः
ॐ सर्वसिद्धाय नमः
ॐ सर्ववंद्याय नमः (50)
ॐ नर्वसिद्दि-प्रदाय नमः
ॐ पंचहस्ताय नमः
ॐ पार्वतीनंदनाय नमः
ॐ प्रभवे नमः
ॐ कुमार गुरवे नमः
ॐ कुंजरासुर-भंजनाय नमः
ॐ कांतिमते नमः
ॐ धृतिमते नमः
ॐ कामिने नमः
ॐ कपित्थफलप्रियाय नमः (60)
ॐ ब्रह्मचारिणे नमः
ॐ ब्रह्मरूपिणे नमः
ॐ महोदराय नमः
ॐ मदोत्कटाय नमः
ॐ महावीराय नमः
ॐ मंत्रिणे नमः
ॐ मंगलसुस्वराय नमः
ॐ प्रमदाय नमः
ॐ ज्यायसे नमः
ॐ यक्षिकिन्नरसेविताय नमः (70)
ॐ गंगासुताय नमः
ॐ गणाधीशाय नमः
ॐ गंभीरनिनदाय नमः
ॐ वटवे नमः
ॐ ज्योतिषे नमः
ॐ अक्रांत-पदचित्प्रभवे नमः
ॐ अभीष्टवरदाय नमः
ॐ मंगलप्रदाय नमः
ॐ अव्यक्त रूपाय नमः
ॐ पुराणपुरुषाय नमः (80)
ॐ पूष्णे नमः
ॐ पुष्करोत्क्षिप्त-वारणाय नमः
ॐ अग्रगण्याय नमः
ॐ अग्रपूज्याय नमः
ॐ अपाकृतपराक्रमाय नमः
ॐ सत्यधर्मिणे नमः
ॐ सख्यै नमः
ॐ साराय नमः
ॐ सरसांबुनिधये नमः
ॐ महेशाय नमः (90)
ॐ विशदांगाय नमः
ॐ मणिकिंकिणी मेखलाय नमः
ॐ समस्तदेवतामूर्तये नमः
ॐ सहिष्णवे नमः
ॐ ब्रह्मविद्यादि दानभुवे नमः
ॐ विष्णवे नमः
ॐ विष्णुप्रियाय नमः
ॐ भक्तजीविताय नमः
ॐ ऐश्वर्यकारणाय नमः
ॐ सततोत्थिताय नमः (100)
ॐ विष्वग्दृशेनमः
ॐ विश्वरक्षा-विधानकृते नमः
ॐ कल्याणगुरवे नमः
ॐ उन्मत्तवेषाय नमः
ॐ परजयिने नमः
ॐ समस्त जगदाधाराय नमः
ॐ सर्वैश्वर्यप्रदाय नमः
ॐ श्री विघ्नेश्वराय नमः (108)
श्री महागणाधिपतये नमः ।
नानाविध परिमल पत्रपुष्प पूजां समर्पयामि ।

धूपं
दशांगं गुग्गुलोपेतं सुगंधि सुमनोहरम् ।
उमासुत नमस्तुभ्यं गृहाण वरदो भव ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः धूपमाघ्रापयामि ।

दीपं
साज्यं त्रिवर्तिसंयुक्तं वह्निना द्योतितं मया ।
गृहाण मंगलं दीपं ईशपुत्र नमोऽस्तु ते ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः दीपं दर्शयामि ।

नैवेद्यं
सुगंधान् सुकृतांश्चैव मोदकान् घृत पाचितान् ।
नैवेद्यं गृह्यतां देव चणमुद्गैः प्रकल्पितान् ॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यं पानीयमेव च ।
इदं गृहाण नैवेद्यं मया दत्तं विनायक ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः नैवेद्यं समर्पयामि ।

तांबूलं
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसंयुक्तं तांबूलं प्रतिगृह्यताम् ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः तांबूलं समर्पयामि ।
तांबूल चर्वणानंतरं आचमनीयं समर्पयामि ।

नीराजनं
घृतवर्ति सहस्रैश्च कर्पूरशकलैस्तथा ।
नीराजनं मया दत्तं गृहाण वरदो भव ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः नीराजनं समर्पयामि ।
नीराजनानंतरं आचमनीयं समर्पयामि ।

मंत्रपुष्पं
गणाधिप नमस्तेऽस्तु उमापुत्राघनाशन ।
विनायकेशतनय सर्वसिद्धिप्रदायक ॥
एकदंतैकवदन तथा मूषकवाहन ।
कुमारगुरवे तुभ्यमर्पयामि सुमांजलिम् ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः मंत्रपुष्पं समर्पयामि ।

प्रदक्षिणं
प्रदक्षिणं करिष्यामि सततं मोदकप्रिय ।
मद्विघ्नं हरये शीघ्रं भक्तानामिष्टदायक ॥
आखुवाहन देवेश विश्वव्यापिन् विनायक ।
प्रदक्षिणं करोमि त्वां प्रसीद वरदो भव ॥
यानि कानि च पापानि जन्मांतरकृतानि च ।
तानि तानि प्रणश्यंति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष विनायक ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टांग नमस्कारं
नमो नमो गणेशाय नमस्ते विश्वरूपिणे ।
निर्विघ्नं कुरु मे कामं नमामि त्वां गजानना ॥
अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदं तं भक्तानां एकदंतमुपास्महे ॥
नमस्ते भिन्नदंताय नमस्ते हरसूनवे ।
ममाभीष्टप्रदो भूयो विनायक नमोऽस्तु ते ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः साष्टांग नमस्कारं समर्पयामि ।

प्रार्थन
प्रसीद देवदेवेश प्रसीद गणनायक ।
ईप्सितं मे वरं देहि परत्र च परांगतिम् ॥
विनायक वरं देहि महात्मन् मोदकप्रिय ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः प्रार्थन नमस्कारान् समर्पयामि ।

राजोपचार पूजा
ॐ श्री सिद्धिविनायक स्वामिने नमः । छत्रमाच्छादयामि ।
ॐ श्री सिद्धिविनायक स्वामिने नमः । चामरैर्वीजयामि ।
ॐ श्री सिद्धिविनायक स्वामिने नमः । गीतं श्रावयामि ।
ॐ श्री सिद्धिविनायक स्वामिने नमः । नृत्यं दर्शयामि ।
ॐ श्री सिद्धिविनायक स्वामिने नमः । वाद्यं घोषयामि ।
ॐ श्री सिद्धिविनायक स्वामिने नमः । आंदोलिकान् आरोहयामि ।
ॐ श्री सिद्धिविनायक स्वामिने नमः । अश्वान् आरोहयामि ।
ॐ श्री सिद्धिविनायक स्वामिने नमः । गजान् आरोहयामि ।
ॐ श्री सिद्धिविनायक स्वामिने नमः । समस्त राजोपचारान् देवोपचारान् समर्पयामि ।

पुनरर्घ्यं
अर्घ्यं गृहाण हेरंब वरप्रद विनायक ।
गंधपुष्पाक्षतैर्युक्तं भक्त्या दत्तं मया प्रभो ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।

नमस्तुभ्यं गणेशाय नमस्ते विघ्ननायक ।
पुनरर्घ्यं प्रदास्यामि गृहाण गणनायक ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।

नमस्ते भिन्नदंताय नमस्ते हरसूनवे ।
यिदमर्घ्यं प्रदास्यामि गृहाण गणनायक ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।

गौर्यंगमलसंभूत स्वामि ज्येष्ठ विनायक ।
गणेश्वर गृहाणार्घ्यं गजानन नमोऽस्तु ते ॥
ॐ श्री सिद्धिविनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।

समर्पणं
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वंदे गजाननम् ॥
मंत्रहीनं क्रियाहीनं भक्तिहीनं विनायक ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

अनया ध्यानावहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री सिद्धि विनायकः स्वामि सुप्रीतो सुप्रसन्नो वरदो भवंतु ।

विघ्नेश्वर कथा

A very long time ago, sages who had accomplished the most intense meditative vows and other distinguished brahmins had gathered in the Naimisha forest to ask Suta, an accomplished Sage, if there was any sacred vow that one can undertake so as to complete one’s work or initiative without any obstacles and can bear fruits of labour as desired, and that if there was one, they requested him to kindly throw light upon it.

Upon being greeted with verbal niceties in this manner, Sage Suta, who was an erudite Puranic scholar and a master of all Shastras, says, “In the past, during the gory war for the kingdom of Hastinapura between the cousins – Pandavas and Kauravas, the eldest of the Pandavas, Dharma Raja (Yudhishtira) requests Krishna to enlighten him of the God who is to be prayed to win the war and of a sacred vow that when carried out would help win back the lost kingdom.

To this, Lord Krishna answers that every year, on the 4th day of the bright fortnight in the Bhadrapada month, one must perform Sri Varasiddhi Vinayaka Vrata. He adds that the vower must bathe with sesame seed oil, dressed in clean and new clothes, be clean minded on that day and to the best of his strength and ability, make an idol of the Lord using gold, silver, copper or clay, and pray to this idol. He further adds that this idol of Ganesha must be Ekadanta – one-toothed (one-tusked); Shurpa-karna – comprising of ears like a winnowing fan; Chatur-bhuja – the one with four hands, and there’s a noose, elephant goad, kadubu – a traditional stuffed dessert and Abhaya mudra – a gesture of fearlessness in each of his hands. This idol is seated on a well-decorated ornamental dais and is to be worshipped with bhakti – infallible devotion. The vower must offer sandalwood in the name of Ganadhipa (The chief of all Ganas or clans); flowers in the name of Vinayaka (the one without a ruler); incense sticks in the name of Umasuta (the son of Goddess Uma); lamps lit using cotton wicks soaked in ghee, in the name of Rudrapriya (the one loved by Lord Rudra); twenty-one modaks (fried or steamed stuffed dumplings) in the name of Vighna-nashaka (the destroyer of Obstacles); twenty-one fresh Bermuda grass strips, while chanting twenty-one Ganadhipa names, and aarti (a religious ritual where in a flame/light is offered to the deity) using camphor. Ten of the twenty-one modaks should be donated to needy people along with dakshina (a token of offering either in money or material gifts) and their blessings are to be accepted.

If thus done, all the good-intentioned goals and aspirations shall fructify. Earlier, Lord Shiva during the burning of Tripura; King Rama during the search for his wife, Sita; Bhagiratha who got Ganga (the river Ganges) to the earth; the Gods and demons during the churning of ocean for Amrita (the elixir of life) and even Samba Shiva, ailing with leprosy, had performed and gained blessings by observing Varasiddhi Vinayaka Vrata. And thus, Krishna persuaded Yudhishtira to undertake this sacred vow to win back his kingdom.”

“By observing this vrata, the impoverished gain wealth, the childless beget offspring, a married woman is guaranteed with long companionship, students earn useful knowledge, and a maiden would be blessed with a perfect husband.” Thus, Sage Suta preaches the other saints about the Varasiddhi Vinayaka Vrata and summarizes that one would befall wrongful accusations if one peeks at the Moon on the fourth day of the bright fortnight in the Bhadrapada month. As a remedy, one must listen to the Syamantakopakhyana (an apologue about a jewel named Syamantaka). Upon hearing this, the other scholarly monks request Sage Suta to elaborate about the legend behind Syamantaka jewel.

श्यमंतकोपाख्यान (The legend of the Syamantaka Jewel)

A very long time ago, Lord Shiva anoints Ganesha as the chief of all Ganas (clan of attendants to Lord Shiva), blesses him with the eight classical siddhis (accomplishments) and buddhi (knowledge) as his two wives in the presence of all the Gods. Lord Brahma further blesses that anyone who offers twenty-one modaks to Lord Ganesha, their hard work shall be fructified with the blessings of the Lord Ganesha. Saying so, Lord Brahma offers twenty-one modaks to Lord Ganesha and seeks blessings to carry on his work of Creation without any impediments. The blissful Ganesha then happens to set off on his vehicle – the mouse along with his two wives, Siddhi and Buddhi on a relaxed vacation.

As He passed by the haughty Chandra (the Moon personified), who was arrogant of his beauty, in the Chandraloka (the Moon), He was laughed at in a condescending manner by Chandra. The enraged Ganesha curses that his beauty shall wane. Chandra gets terrified of the curse and hides under a lotus. The other Gods found pity and persuaded Chandra to offer respectful apologies to the Lord. Upon doing so, an obliging Ganesha, offered to reduce the gravity of curse and announced that anyone who peeks at Chandra on the fourth day of the bright fortnight in the Bhadrapada month shall be subject to wrongful accusations, and to be released of the perilous bane, one must read or listen to the legend of Syamantaka jewel. Chandra was filled with humility and devotion and observed the Varasiddhi Vinayaka Vrata as a token of gratitude.

In the Dwapara Yuga, Lord Narayana incarnates as the son of Vasudeva and Devaki, bearing the name Krishna, with a sole intention of relieving the earth of all the evils (and thus reducing the load it bears). Ugrasena’s son Satrajit, a Yadava nobleman prayed ardently to the Sun God. Upon being delighted by his devotion, the Sun God appears in front of him as a dazzling fiery shape. Satrajit requests the Lord to appear in a less blinding form. The Sun God removes the Syamantaka jewel off his neck so as to show His real self with a body like burnished copper and slightly red eyes. Satrajit was elated and offered his greetings and adorations, for which he was gifted with the boon of Syamantaka jewel. He was also apprised that if worn with utter austerity and cleanliness (with respect to both body and mind), the jewel would bestow eight folds of gold each day. When Satrajit returned to Dwaraka with Syamantaka jewel around his neck, people mistook him for the Sun God. He later presented it to his brother Prasena, who was also a ruler of the Yadava province.

On one such day, Prasena happened to wear the Syamantaka jewel and set off hunting with Krishna and Balarama. In the forest, Prasena was killed unfortunately by a lion that takes the jewel along with it. However, later, the lion was killed by the king of bears, Jambavanta, who adorned this jewel on his daughter, baby Jambavati in his cave.

At the same time, as Krishna returned to Dwaraka sans Prasena, a wrongful rumour spread across the city like wildfire alleging that Krishna killed Prasena in the forest for the Syamantaka jewel. Krishna having felt miserable at this blame, learnt from Sage Narada that performing Varasiddhi Vinayaka Vrata on the fourth day of the bright fortnight in the Bhadrapada month would liberate him of all the blame. Having followed his instructions, Krishna set off to the forest, tracing the whereabouts of Prasena. The path led him to the traces of Prasena and the lion, both of whom were dead by then, and then to the cave of Jambavanta. Krishna discovered the Syamantaka jewel around Jambavati, who was sleeping in her cradle. An overjoyed Krishna blew his conch and attracted the attention of Jambavanta. A violent war broke out between the two inside the cave for twenty-one days. The people outside the cave almost lost hopes that Krishna would make it alive, while inside the cave Krishna had to engage for a very long time to gradually tire out Jambavanta. Eventually, Krishna presents his Ramavatara (incarnation as Lord Rama) and thus reveals that He is indeed the respected friend of Jambavanta from the Treta Yuga. Jambavanta then, graciously accepts defeat and offers his daughter Jambavati in marriage to Krishna. And then, along with her even the Syamantaka jewel makes its way to Dwaraka. Krishna goes on to return the jewel to Satrajit, who upon knowing the truth, offers his daughter Satyabhama in marriage to Krishna and lets him keep the Syamantaka jewel. Thus, the peeking of Chandra on that particular day and the corresponding observance of Varasiddhi Vinayaka Vrata absolved Krishna off the wrongful accusation.

Similarly, anyone who happens to catch a glimpse of the moon on the fourth day of Bhadrapada month, during the bright fortnight can chant the following verse to be free of the consequences:

सिंहः प्रसेनमवधीत् सिंहो जांबवता हतः ।
सुकुमारकमारोदीः तपह्येष शमंतकः ॥

A lion killed Prasena; the lion was killed by Jambavan.
Don't cry, O dear child! This Syamantaka jewel is yours.

Also, one is not just liberated from wrongful blame due to such circumstances by either reading or listening to this legend about the Syamantaka jewel but is also blessed with all kinds of comforts and happiness by Ganesha. It is in this way, Sage Suta explains about the story behind Varasiddhi Vinayaka to all the scholars and monks seated in his hermitage.

Thus, ends the excerpt from Skanda Purana about the Legend of Syamantaka Jewel.

विनायक मंगलाचरणं (तॆलुगु)

उ ॥ तॊंडमुनेकदंतमु तोरपु बॊज्जयु वाम हस्तमुन्
मॆंडुग म्रोयु गज्जॆलु मॆल्लनि चूपुलु मंदहासमुन्
कॊंडॊक गुज्जु रूपमुन कोरिन विद्यलकॆल्ल नॊज्जवै
युंडॆडु पार्वती तनय ओयि गणाधिपा! नीकु म्रॊक्कॆदन्

तॊलुत नविघ्नमस्तनुचु धूर्जटी नंदन नीकु म्रॊक्कॆदन्
फलितमु सेयवय्य निनु प्रार्धन जेसॆद नेकदंत ना
वलपटि चेति घंटमुन वाक्कुन नॆपुडु बायकुंडुमी
तलपुन निन्नु वेडॆदनु दैवगणाधिप लोक नायका!

क ॥ तलचितिने गणनाथुनि
तलचितिने विघ्नपतिनि दलचिन पनिगा
दलचितिने हेरंबुनि
दलचिन ना विघ्नमुलनु तॊलगुट कॊरकुन्

अटुकुलु कॊब्बरि पलुकुलु
चिटि बॆल्लमु नानुब्रालु चॆरकु रसंबुन्
निटलाक्षुनग्र सुतुनकु
पटुकरमुग विंदु चेतु प्रार्थिंतु मदिन्

ओ बॊज्जगणपय्य नी बंटु नेनय्य – उंड्राल्ल मीदिकि दंडु पंपु ।
कम्मनि नॆय्यियु कडुमुद्दपप्पुनु – बॊज्जविरुगग दिनुचु पॊरलुकॊनुचु
। जय मंगलं नित्य शुभ मंगलम् ।

वॆंडिपल्लॆरमुलो वॆयिवेल मुत्यालु – कॊंडलुग नीलमुलु कलियबोसि ।
मॆंडुगनु हारमुलु मॆडनिंड वेसिकॊनि – दंडिगा नीकित्तु धवलारति ॥ जय ॥

श्रीमूर्तिवंद्युनकु चिन्मयानंदुनकु - भासुरस्तोत्रुनकु शाश्वतुनकु ।
सोमार्कनेत्रुनकु सुंदराकारुनकु - कामरूपुनकु श्री गणनाधुनकुनु ॥ जय ॥

एकदंतंबुनु ऎल्लगजवदनंबु – बागयिन तॊंडंबु वलपु कडुपु ।
जोकयुन मूषिकमु सॊरिदिनॆक्काडुचुनु – भव्युडगु देवगणपतिकि निपुडु ॥ जय ॥

चॆंगल्व चेमंति चॆलरेगि गन्नेरु तामरलु तंगेडु तरचुगानु ।
पुष्पजातुलु तॆच्चि पूजिंतु नेनॆपुडु बहुबुद्धि गणपतिकि बागुगानु ॥जय ॥




Browse Related Categories: