View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

धर्मशास्ता स्तोत्रम्

श्रितानंद चिंतामणि श्रीनिवासं
सदा सच्चिदानंद पूर्णप्रकाशम् ।
उदारं सुदारं सुराधारमीशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 1

विभुं वेदवेदांतवेद्यं वरिष्ठं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् ।
विभास्वत्प्रभावप्रभं पुष्कलेष्टं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 2

परित्राणदक्षं परब्रह्मसूत्रं
स्फुरच्चारुगात्रं भवध्वांतमित्रम् ।
परं प्रेमपात्रं पवित्रं विचित्रं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 3

परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशाधिपीठोज्ज्वलच्चारुदीपम् ।
सुरेशादिसंसेवितं सुप्रतापं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 4

हरीशानसंयुक्तशक्त्येकवीरं
किरातावतारं कृपापांगपूरम् ।
किरीटावतंसोज्ज्वलत् पिंछभारं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 5

गुरुं पूर्णलावण्यपादादिकेशं
गरीयं महाकोटिसूर्यप्रकाशम् ।
करांभोरुहन्यस्तवेत्रं सुरेशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 6

महायोगपीठे ज्वलंतं महांतं
महावाक्यसारोपदेशं सुशांतम् ।
महर्षिप्रहर्षप्रदं ज्ञानकंदं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 7

महारण्यमन्मानसांतर्निवासान्
अहंकारदुर्वारहिं‍स्रा मृगादीन् ।
हरंतं किरातावतारं चरंतं [निहंतं]
परं ज्योतिरूपं भजे भूतनाथम् ॥ 8

पृथिव्यादिभूत प्रपंचांतरस्थं
पृथग्भूतचैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणप्रसिद्धं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 9

जगज्जीवनं पावनं भावनीयं
जगद्व्यापकं दीपकं मोहनीयम् ।
सुखाधारमाधारभूतं तुरीयं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 10

इहामुत्र सत्सौख्यसंपन्निधानं
महद्योनिमव्याहतात्माभिधानम् ।
अहः पुंडरीकाननं दीप्यमानं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 11

त्रिकालस्थितं सुस्थिरं ज्ञानसंस्थं
त्रिधाम त्रिमूर्त्यात्मकं ब्रह्मसंस्थम् ।
त्रयीमूर्तिमार्तिच्छिदं शक्तियुक्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 12

इडां पिंगलां सत्सुषुम्नां विशंतं
स्फुटं ब्रह्मरंध्र स्वतंत्रं सुशांतम् ।
दृढं नित्य निर्वाणमुद्भासयंतं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 13

अणुब्रह्मपर्यंत जीवैक्यबिंबं
गुणाकारमत्यंतभक्तानुकंपम् ।
अनर्घं शुभोदर्कमात्मावलंबं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 14

इति धर्मशास्ता भुजंग स्तोत्रम् ।




Browse Related Categories: