View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

धर्मशाश्ता स्तोत्रम् (श्री भारती तीर्थ कृतम्)

जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यंतकीर्तितः ।
तस्यापि शास्ता यो देवस्तं सदा समुपाश्रये ॥ 1 ॥

श्रीशंकराचार्यैः शिवावतारैः
धर्मप्रचाराय समस्तकाले ।
सुस्थापितं शृंगमहीध्रवर्ये
पीठं यतींद्राः परिभूषयंति ॥ 2 ॥

तेष्वेव कर्मंदिवरेषु विद्या-
-तपोधनेषु प्रथितानुभावः ।
विद्यासुतीर्थोऽभिनवोऽद्य योगी
शास्तारमालोकयितुं प्रतस्थे ॥ 3 ॥

धर्मस्य गोप्ता यतिपुंगवोऽयं
धर्मस्य शास्तारमवैक्षतेति ।
युक्तं तदेतद्युभयोस्तयोर्हि
सम्मेलनं लोकहिताय नूनम् ॥ 4 ॥

कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः
श्रौतोऽयं न खलु विलोपमाप तत्र ।
हेतुः खल्वयमिह नूनमेव नान्यः
शास्ताऽस्ते सकलजनैकवंद्यपादः ॥ 5 ॥

ज्ञानं षडास्यवरतातकृपैकलभ्यं
मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।
ज्ञानं च मोक्ष उभयं तु विना श्रमेण
प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥ 6 ॥

यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् ।
शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥ 7 ॥

शबरगिरिनिवासः सर्वलोकैकपूज्यः
नतजनसुखकारी नम्रहृत्तापहारी ।
त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता
हरिहरसुतदेवः संततं शं तनोतु ॥ 8 ॥

इति शृंगेरि जगद्गुरु श्री श्री भारतीतीर्थ महास्वामिभिः विरचितं धर्मशास्ता स्तोत्रम् ।




Browse Related Categories: