View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

पितृ स्तोत्रं 1 (गरुड पुराणम्)

रुचिरुवाच ।
नमस्येऽहं पितॄन् भक्त्या ये वसंत्यधिदेवताः ।
देवैरपि हि तर्प्यंते ये श्राद्धेषु स्वधोत्तरैः ॥ 1 ॥

नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यंते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ 2 ॥

नमस्येऽहं पितॄन् स्वर्गे सिद्धाः संतर्पयंति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ 3 ॥

नमस्येऽहं पितॄन् भक्त्या येऽर्च्यंते गुह्यकैर्दिवि ।
तन्मयत्वेन वांछद्भिरृद्धिर्यात्यंतिकीं पराम् ॥ 4 ॥

नमस्येऽहं पितॄन् मर्त्यैरर्च्यंते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ 5 ॥

नमस्येऽहं पितॄन् विप्रैरर्च्यंते भुवि ये सदा ।
वांछिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ 6 ॥

नमस्येऽहं पितॄन् ये वै तर्प्यंतेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ 7 ॥

नमस्येऽहं पितॄन् विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं संतर्प्यंते समाधिभिः ॥ 8 ॥

नमस्येऽहं पितॄन् श्राद्धै राजन्यास्तर्पयंति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ 9 ॥

नमस्येऽहं पितॄन् वैश्यैरर्च्यंते भुवि ये सदा ।
स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥ 10 ॥

नमस्येऽहं पितॄन् श्राद्धे शूद्रैरपि च भक्तितः ।
संतर्प्यंते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ 11 ॥

नमस्येऽहं पितॄन् श्राद्धे पाताले ये महासुरैः ।
संतर्प्यंते सुधाहारास्त्यक्तदंभमदैः सदा ॥ 12 ॥

नमस्येऽहं पितॄन् श्राद्धैरर्च्यंते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ 13 ॥

नमस्येऽहं पितॄन् श्राद्धैः सर्पैः संतर्पितान्सदा ।
तत्रैव विधिवन्मंत्रभोगसंपत्समन्वितैः ॥ 14 ॥

पितॄन्नमस्ये निवसंति साक्षा-
-द्ये देवलोकेऽथ महीतले वा ।
तथाऽंतरिक्षे च सुरारिपूज्या-
-स्ते मे प्रतीच्छंतु मनोपनीतम् ॥ 15 ॥

पितॄन्नमस्ये परमार्थभूता
ये वै विमाने निवसंत्यमूर्ताः ।
यजंति यानस्तमलैर्मनोभि-
-र्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ 16 ॥

पितॄन्नमस्ये दिवि ये च मूर्ताः
स्वधाभुजः काम्यफलाभिसंधौ ।
प्रदानशक्ताः सकलेप्सितानां
विमुक्तिदा येऽनभिसंहितेषु ॥ 17 ॥

तृप्यंतु तेऽस्मिन्पितरः समस्ता
इच्छावतां ये प्रदिशंति कामान् ।
सुरत्वमिंद्रत्वमितोऽधिकं वा
गजाश्वरत्नानि महागृहाणि ॥ 18 ॥

सोमस्य ये रश्मिषु येऽर्कबिंबे
शुक्ले विमाने च सदा वसंति ।
तृप्यंतु तेऽस्मिन्पितरोऽन्नतोयै-
-र्गंधादिना पुष्टिमितो व्रजंतु ॥ 19 ॥

येषां हुतेऽग्नौ हविषा च तृप्ति-
-र्ये भुंजते विप्रशरीरसंस्थाः ।
ये पिंडदानेन मुदं प्रयांति
तृप्यंतु तेऽस्मिन्पितरोऽन्नतोयैः ॥ 20 ॥

ये खड्गमांसेन सुरैरभीष्टैः
कृष्णैस्तिलैर्दिव्य मनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः
संप्रीणितास्ते मुदमत्र यांतु ॥ 21 ॥

कव्यान्यशेषाणि च यान्यभीष्टा-
-न्यतीव तेषां मम पूजितानाम् ।
तेषांच सान्निध्यमिहास्तु पुष्प-
-गंधांबुभोज्येषु मया कृतेषु ॥ 22 ॥

दिने दिने ये प्रतिगृह्णतेऽर्चां
मासांतपूज्या भुवि येऽष्टकासु ।
ये वत्सरांतेऽभ्युदये च पूज्याः
प्रयांतु ते मे पितरोऽत्र तुष्टिम् ॥ 23 ॥

पूज्या द्विजानां कुमुदेंदुभासो
ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता
नीलीप्रभाः शूद्रजनस्य ये च ॥ 24 ॥

तेऽस्मिन्समस्ता मम पुष्पगंध-
-धूपांबुभोज्यादिनिवेदनेन ।
तथाऽग्निहोमेन च यांति तृप्तिं
सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ 25 ॥

ये देवपूर्वाण्यभितृप्तिहेतो-
-रश्नंति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवंति
तृप्यंतु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ 26 ॥

रक्षांसि भूतान्यसुरांस्तथोग्रा-
-न्निर्नाशयंतु त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्या-
-स्तृप्यंतु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ 27 ॥

अग्निस्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजंतु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ 28 ॥

अग्निस्वात्ताः पितृगणाः प्राचीं रक्षंतु मे दिशम् ।
तथा बर्हिषदः पांतु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ 29 ॥

रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतः पितरो रक्षां कुर्वंतु मम नित्यशः ॥ 30 ॥

विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ 31 ॥

कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ॥ 32 ॥

वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ 33 ॥

महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पंच तथैवैते पितॄणां पापनाशनाः ॥ 34 ॥

सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ 35 ॥

एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
त एवात्र पितृगणास्तुष्यंतु च मदाहितम् ॥ 36 ॥

इति श्री गरुडपुराणे ऊननवतितमोऽध्याये रुचिकृत पितृ स्तोत्रम् ।




Browse Related Categories: