View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

आदि वाराही स्तोत्रम्

नमोऽस्तु देवी वाराही जयैकारस्वरूपिणि ।
जपित्वा भूमिरूपेण नमो भगवती प्रिये ॥ 1 ॥

जय क्रोडास्तु वाराही देवी त्वं च नमाम्यहम् ।
जय वाराहि विश्वेशी मुख्यवाराहि ते नमः ॥ 2 ॥

मुख्यवाराहि वंदे त्वां अंधे अंधिनि ते नमः ।
सर्वदुष्टप्रदुष्टानां वाक्‍स्तंभनकरी नमः ॥ 3 ॥

नमः स्तंभिनि स्तंभे त्वां जृंभे जृंभिणि ते नमः ।
रुंधे रुंधिनि वंदे त्वां नमो देवी तु मोहिनी ॥ 4 ॥

स्वभक्तानां हि सर्वेषां सर्वकामप्रदे नमः ।
बाह्वोः स्तंभकरी वंदे त्वां जिह्वास्तंभकारिणी ॥ 5 ॥

स्तंभनं कुरु शत्रूणां कुरु मे शत्रुनाशनम् ।
शीघ्रं वश्यं च कुरुते योऽग्नौ वाचात्मिके नमः ॥ 6 ॥

ठचतुष्टयरूपे त्वां शरणं सर्वदा भजे ।
होमात्मके फड्रूपेण जय आद्यानने शिवे ॥ 7 ॥

देहि मे सकलान् कामान् वाराही जगदीश्वरी ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 8 ॥

इदमाद्यानना स्तोत्रं सर्वपापविनाशनम् ।
पठेद्यः सर्वदा भक्त्या पातकैर्मुच्यते तथा ॥ 9 ॥

लभंते शत्रवो नाशं दुःखरोगापमृत्यवः ।
महदायुष्यमाप्नोति अलक्ष्मीर्नाशमाप्नुयात् ॥ 10 ॥

इति श्री आदिवाराही स्तोत्रम् ।




Browse Related Categories: