View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री दत्तात्रॆय द्वादश नाम स्तोत्रम्

अस्य श्रीदत्तात्रेय द्वादशनाम स्तोत्रमंत्रस्य परमहंस ऋषिः श्रीदत्तात्रेय परमात्मा देवता अनुष्टुप्छंदः सकलकामनासिद्ध्यर्थे जपे विनियोगः ।

प्रथमस्तु महायोगी द्वितीयः प्रभुरीश्वरः ।
तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागरः ॥ 1 ॥

पंचमो ज्ञानविज्ञानं षष्ठस्यात् सर्वमंगलम् ।
सप्तमो पुंडरीकाक्षो अष्टमो देववल्लभः ॥ 2 ॥

नवमो नंददेवेशो दशमो नंददायकः ।
एकादशो महारुद्रो द्वादशो करुणाकरः ॥ 3 ॥

एतानि द्वादशनामानि दत्तात्रेय महात्मनः ।
मंत्रराजेति विख्यातं दत्तात्रेय हरः परः ॥ 4 ॥

क्षयोपस्मार कुष्ठादि तापज्वरनिवारणम् ।
राजद्वारे पदे घोरे संग्रामेषु जलांतरे ॥ 5 ॥

गिरे गुहांतरेऽरण्ये व्याघ्रचोरभयादिषु ।
आवर्तने सहस्रेषु लभते वांछितं फलम् ॥ 6 ॥

त्रिकाले यः पठेन्नित्यं मोक्षसिद्धिमवाप्नुयात् ।
दत्तात्रेय सदा रक्षेत् यदा सत्यं न संशयः ॥ 7 ॥

विद्यार्थी लभते विद्यां रोगी रोगात् प्रमुच्यते ।
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ॥ 8 ॥

अभार्यो लभते भार्यां सुखार्थी लभते सुखम् ।
मुच्यते सर्वपापेभ्यो सर्वत्र विजयी भवेत् ॥ 9 ॥

इति श्री दत्तात्रेय द्वादशनाम स्तोत्रम् ।




Browse Related Categories: