View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

महा गणपति मूल मंत्राः (पाद माला स्तोत्रम्)

॥ मूलमंत्रम् ॥
॥ ॐ ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद
सर्वजनं मे वशमानय स्वाहा ॥

॥ अथ स्तोत्रम्॥
ॐ इत्येतदजस्य कंठविवरं भित्वा बहिर्निर्गतं
ह्योमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः ।
ओमित्येव सदा जपंति यतयः स्वातमैकनिष्ठाः परं
ह्योंकाराकृतिवक्त्रमिंदुनिटिलं विघ्नेश्वरं भवाये ॥ 1॥

श्रींबीजं श्रमदुःखजन्ममरणव्याध्याधिभीनाशकं
मृत्युक्रोधनशांतिबिंदुविलसद्वर्णाकृतिश्रीप्रदम् ।
स्वांतःस्वात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं
श्रीश्रीनायकसेविते भवदनप्रेमास्पदं भावये ॥ 2॥

ह्रींबीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा
चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् ।
मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं
मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम् ॥ 3॥

क्लींबीजं कलिधातुवत्कलयतां सर्वेष्टदं देहिनां
धातृक्ष्मायुतशांतिबिंदुविलसद्वर्णात्मकं कामदम् ।
श्रीकृष्णप्रियमिंदिरासुतमनःप्रीत्येकहेतुं परं
हृत्पद्मे कलये सदा कलिहरं कालारिपुत्रप्रियम् ॥ 4॥

ग्लौंबीजं गुणरूपनिर्गुणपरब्रह्मादिशक्तेर्महा-
हंकाराकृतिदंडिनीप्रियमजश्रीनाथरुद्रेष्टदम् ।
सर्वाकर्षिणिदेवराजभुवनार्णेंद्वात्मकं श्रीकरं
चित्ते विघ्ननिवारणाय गिरिजजातप्रियं भावये ॥ 5॥

गंगासुतं गंधमुखोपचारप्रियं खगारोहणभागिनेयम् ।
गंगासुताद्यं वरगंधतत्त्वमूलांबुजस्थं हृदि भावयेऽहम् ॥ 6॥

गणपतये वरगुणनिधये सुरगणपतये नतजनततये ।
मणिगणभूषितचरणयुगाश्रितमलहरणे चण ते नमः ॥ 7॥

वराभये मोदकमेकदंतं करांबुजातैः सततं धरंतम् ।
वरांगचंद्रं परभक्तिसांद्रैर्जनैर्भजंतं कलये सदाऽंतः ॥ 8॥

वरद नतजनानां संततं वक्रतुंड
स्वरमयनिजगात्र स्वात्मबोधैकहेतो ।
करलसदमृतांभोपूर्णपत्राद्य मह्यं
गरगलसुत शीघ्रं देहि मद्बोधमीड्यम् ॥ 9॥

सर्वजनं परिपालय शर्वज
पर्वसुधाकरगर्वहर ।
पर्वतनाथसुतासुत पालय
खर्वं मा कुरु दीनमिमम् ॥ 10 ॥

मेदोऽस्थिमांसरुधिरांत्रमये शरीरे
मेदिन्यबग्निमरुदंबरलास्यमाने ।
मे दारुणं मदमुखाघमुमाज हृत्वा
मेधाह्वयासनवरे वस दंतिवक्त्र ॥ 11॥

वशं कुरु त्वं शिवजात मां ते वशीकृताशेषसमस्तलोक ।
वसार्णसंशोभितमूलपद्मलसच्छ्रियाऽलिङ्तवारणास्य ॥ 12॥

आनयाशुपदवारिजांतिकं मां नयादिगुणवर्जितं तव ।
हानिहीनपदजामृतस्य ते पानयोग्यमिभवक्त्र मां कुरु ॥ 13॥

स्वाहास्वरूपेण विराजसे त्वं सुधाशनानां प्रियकर्मणीड्यम् ।
स्वधास्वरूपेण तु पित्र्यकर्मण्युमासुतेज्यामयविश्वमूर्ते ॥ 14॥

अष्टाविंशतिवर्णपत्रलसितं हारं गणेशप्रियं
कष्टाऽनिष्टहरं चतुर्दशपदैः पुष्पैर्मनोहारकम् ।
तुष्ट्यादिप्रदसद्गुरुत्तमपदांभोजे चिदानंददं
शिष्टेष्टोऽहमनंतसूत्रहृदयाऽऽबद्धं सुभक्त्याऽर्पये ॥ 15॥

॥ इति श्रीअनंतानंदकृतं श्रीगुरुचिदानंदनाथसमर्पितं
श्रीमहागणपतिमूलमंत्रमालास्तोत्रम् ॥




Browse Related Categories: