View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री दुर्गा चंद्रकला स्तुति

ध्यानम्
उमाकांते रमाकांते एषामासी-न्मतिस्समा ।
नमामि दीक्षितेंद्रां स्तान् नयषट्क-विशारदाम् ॥

वेधोहरीश्वरस्तुत्यां विहर्त्रीं विंध्यभूधरे ।
हरप्राणेश्वरीं वंदे हंत्रीं विबुधविद्विषाम् ॥ 1 ॥

अभ्यर्थनेन सरसीरुहसंभवस्य
त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् ।
विश्वेश्वरी विपदपाकरणे पुरस्तात्
माता ममास्तु मधुकैटभयोर्निहंत्री ॥ 2 ॥

प्राङ्निर्जरेषु निहतैर्निजशक्तिलेशैः
एकीभवद्भिरुदिताऽखिललोकगुप्त्यै ।
संपन्नशस्त्रनिकरा च तदायुधस्थैः
माता ममास्तु महिषांतकरी पुरस्तात् ॥ 3 ॥

प्रालेयशैलतनया तनुकांतिसंपत्
कोशोदिता कुवलयच्छविचारुदेहा ।
नारायणी नमदभीप्सितकल्पवल्ली
सुप्रीतिमावहतु शुंभनिशुंभहंत्री ॥ 4 ॥

विश्वेश्वरीति महिषांतकरीति यस्याः
नारायणीत्यपि च नामभिरंकितानि ।
सूक्तानि पंकजभुवा च सुरर्षिभिश्च
दृष्टानि पावकमुखैश्च शिवां भजे ताम् ॥ 5 ॥

उत्पत्तिदैत्यहननस्तवनात्मकानि
संरक्षकाण्यखिलभूतहिताय यस्याः ।
सूक्तान्यशेषनिगमांतविदः पठंति
तां विश्वमातरमजस्रमभिष्टवीमि ॥ 6 ॥

ये वैप्रचित्तपुनरुत्थितशुंभमुख्यैः
दुर्भिक्षघोरसमयेन च कारितासु ।
आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः
तैरंबिका समभिरक्षतु मां विपद्भ्यः ॥ 7 ॥

सूक्तं यदीयमरविंदभवादि दृष्टं
आवर्त्य देव्यनुपदं सुरथः समाधिः ।
द्वावप्यवापतुरभीष्टमनन्यलभ्यं
तामादिदेवतरुणीं प्रणमामि मूर्ध्ना ॥ 8 ॥

माहिष्मतीतनुभवं च रुरुं च हंतुं
आविष्कृतैर्निजरसादवतारभेदैः ।
अष्टादशाहतनवाहतकोटिसंख्यैः
अंबा सदा समभिरक्षतु मां विपद्भ्यः ॥ 9 ॥

एतच्चरित्रमखिलं लिखितं हि यस्याः
संपूजितं सदन एव निवेशितं वा ।
दुर्गं च तारयति दुस्तरमप्यशेषं
श्रेयः प्रयच्छति च सर्वमुमां भजे ताम् ॥ 10 ॥

यत्पूजनस्तुतिनमस्कृतिभिर्भवंति
प्रीताः पितामहरमेशहरास्त्रयोऽपि ।
तेषामपि स्वकगुणैर्ददती वपूंषि
तामीश्वरस्य तरुणीं शरणं प्रपद्ये ॥ 11 ॥

कांतारमध्यदृढलग्नतयाऽवसन्नाः
मग्नाश्च वारिधिजले रिपुभिश्च रुद्धाः ।
यस्याः प्रपद्य चरणौ विपदस्तरंति
सा मे सदाऽस्तु हृदि सर्वजगत्सवित्री ॥ 12 ॥

बंधे वधे महति मृत्युभये प्रसक्ते
वित्तक्षये च विविधे य महोपतापे ।
यत्पादपूजनमिह प्रतिकारमाहुः
सा मे समस्तजननी शरणं भवानी ॥ 13 ॥

बाणासुरप्रहितपन्नगबंधमोक्षः
तद्बाहुदर्पदलनादुषया च योगः ।
प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादात्
सा मे शिवा सकलमप्यशुभं क्षिणोतु ॥ 14 ॥

पापः पुलस्त्यतनयः पुनरुत्थितो मां
अद्यापि हर्तुमयमागत इत्युदीतम् ।
यत्सेवनेन भयमिंदिरयाऽवधूतं
तामादिदेवतरुणीं शरणं गतोऽस्मि ॥ 15 ॥

यद्ध्यानजं सुखमवाप्यमनंतपुण्यैः
साक्षात्तमच्युत परिग्रहमाश्ववापुः ।
गोपांगनाः किल यदर्चनपुण्यमात्राः
सा मे सदा भगवती भवतु प्रसन्ना ॥ 16 ॥

रात्रिं प्रपद्य इति मंत्रविदः प्रपन्नान्
उद्बोध्य मृत्युवधिमन्यफलैः प्रलोभ्य ।
बुद्ध्वा च तद्विमुखतां प्रतनं नयंतीं
आकाशमादिजननीं जगतां भजे ताम् ॥ 17 ॥

देशकालेषु दुष्टेषु दुर्गाचंद्रकलास्तुतिः ।
संध्ययोरनुसंधेया सर्वापद्विनिवृत्तये ॥ 18 ॥

इति श्रीमदपय्यदीक्षितविरचिता दुर्गाचंद्रकलास्तुतिः ॥




Browse Related Categories: