View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री गुरुगीता तृतीयोध्यायः

अथ तृतीयोऽध्यायः ॥

अथ काम्यजपस्थानं कथयामि वरानने ।
सागरांते सरित्तीरे तीर्थे हरिहरालये ॥ 236 ॥

शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे ।
वटस्य धात्र्या मूले वा मठे बृंदावने तथा ॥ 237 ॥

पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन जपमेतत् समारभेत् ॥ 238 ॥

जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा ।
हीनं कर्म त्यजेत्सर्वं गर्हितस्थानमेव च ॥ 239 ॥

श्मशाने बिल्वमूले वा वटमूलांतिके तथा ।
सिद्ध्यंति कानके मूले चूतवृक्षस्य सन्निधौ ॥ 240 ॥

पीतासनं मोहने तु ह्यसितं चाभिचारिके ।
ज्ञेयं शुक्लं च शांत्यर्थं वश्ये रक्तं प्रकीर्तितम् ॥ 241 ॥

जपं हीनासनं कुर्वन् हीनकर्मफलप्रदम् ।
गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ॥ 242 ॥

जपन् जयमवाप्नोति मरणे मुक्तिदायिका ।
सर्वकर्माणि सिद्ध्यंति गुरुपुत्रे न संशयः ॥ 243 ॥

गुरुमंत्रो मुखे यस्य तस्य सिद्ध्यंति नाऽन्यथा ।
दीक्षया सर्वकर्माणि सिद्ध्यंति गुरुपुत्रके ॥ 244 ॥

भवमूलविनाशाय चाष्टपाशनिवृत्तये ।
गुरुगीतांभसि स्नानं तत्त्वज्ञः कुरुते सदा ॥ 245 ॥

स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥ 246 ॥

सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणाः सर्वे क्षेत्रपीठे चरंति च ॥ 247 ॥

आसनस्थाः शयाना वा गच्छंतस्तिष्ठतोऽपि वा ।
अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा ॥ 248 ॥

शुचिर्भूता ज्ञानवंतो गुरुगीतां जपंति ये ।
तेषां दर्शनसंस्पर्शात् दिव्यज्ञानं प्रजायते ॥ 249 ॥

समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् ।
भिन्ने कुंभे यथाऽऽकाशं तथाऽऽत्मा परमात्मनि ॥ 250 ॥

तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा ।
ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ॥ 251 ॥

एवंविधो महायुक्तः सर्वत्र वर्तते सदा ।
तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत् ॥ 252 ॥

गुरुसंतोषणादेव मुक्तो भवति पार्वति ।
अणिमादिषु भोक्तृत्वं कृपया देवि जायते ॥ 253 ॥

साम्येन रमते ज्ञानी दिवा वा यदि वा निशि ।
एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत् ॥ 254 ॥

अथ संसारिणः सर्वे गुरुगीता जपेन तु ।
सर्वान् कामांस्तु भुंजंति त्रिसत्यं मम भाषितम् ॥ 255 ॥

सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् ।
गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम् ॥ 256 ॥

गुरुर्देवो गुरुर्धर्मो गुरौ निष्ठा परं तपः ।
गुरोः परतरं नास्ति त्रिवारं कथयामि ते ॥ 257 ॥

धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः ।
धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता ॥ 258 ॥

आकल्पजन्म कोटीनां यज्ञव्रततपः क्रियाः ।
ताः सर्वाः सफला देवि गुरूसंतोषमात्रतः ॥ 259 ॥

शरीरमिंद्रियं प्राणमर्थं स्वजनबंधुता ।
मातृकुलं पितृकुलं गुरुरेव न संशयः ॥ 260 ॥

मंदभाग्या ह्यशक्ताश्च ये जना नानुमन्वते ।
गुरुसेवासु विमुखाः पच्यंते नरकेऽशुचौ ॥ 261 ॥

विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् ।
येषां गुरूकृपा नास्ति अधो गच्छंति पार्वति ॥ 262 ॥

ब्रह्मा विष्णुश्च रुद्रश्च देवाश्च पितृकिन्नराः ।
सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः ॥ 263 ॥

गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् ।
सर्वतीर्थमयं देवि श्रीगुरोश्चरणांबुजम् ॥ 264 ॥

कन्याभोगरता मंदाः स्वकांतायाः पराङ्मुखाः ।
अतः परं मया देवि कथितं न मम प्रिये ॥ 265 ॥

इदं रहस्यमस्पष्टं वक्तव्यं च वरानने ।
सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति ॥ 266 ॥

स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति ।
न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ॥ 267 ॥

अभक्ते वंचके धूर्ते पाषंडे नास्तिकादिषु ।
मनसाऽपि न वक्तव्या गुरुगीता कदाचन ॥ 268 ॥

गुरवो बहवः संति शिष्यवित्तापहारकाः ।
तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम् ॥ 269 ॥

चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः ।
मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ॥ 270 ॥

गुरवो निर्मलाः शांताः साधवो मितभाषिणः ।
कामक्रोधविनिर्मुक्ताः सदाचाराः जितेंद्रियाः ॥ 271 ॥

सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः ।
स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ॥ 272 ॥

वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् ।
यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ॥ 273 ॥

वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् ।
प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति ॥ 274 ॥

पंचाक्षर्यादिमंत्राणामुपदेष्टा तु पार्वति ।
स गुरुर्बोधको भूयादुभयोरयमुत्तमः ॥ 275 ॥

मोहमारणवश्यादितुच्छमंत्रोपदेशिनम् ।
निषिद्धगुरुरित्याहुः पंडितास्तत्त्वदर्शिनः ॥ 276 ॥

अनित्यमिति निर्दिश्य संसारं संकटालयम् ।
वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ॥ 277 ॥

तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति ।
कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ॥ 278 ॥

सर्वसंदेहसंदोहनिर्मूलनविचक्षणः ।
जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ॥ 279 ॥

बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः ।
लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबंधनम् ॥ 280 ॥

एवं बहुविधा लोके गुरवः संति पार्वति ।
तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ॥ 281 ॥

निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः ।
ब्रह्मप्रलयपर्यंतं न पुनर्याति मर्त्यताम् ॥ 282 ॥

एवं श्रुत्वा महादेवी महादेववचस्तथा ।
अत्यंतविह्वलमनाः शंकरं परिपृच्छति ॥ 283 ॥

पार्वत्युवाच ।
नमस्ते देवदेवात्र श्रोतव्यं किंचिदस्ति मे ।
श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ॥ 284 ॥

स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः ।
दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः ॥ 285 ॥

श्री महादेव उवाच ।
शृणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः ।
तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः ॥ 286 ॥

अखंडैकरसं ब्रह्म नित्यमुक्तं निरामयम् ।
स्वस्मिन् संदर्शितं येन स भवेदस्यं देशिकः ॥ 287 ॥

जलानां सागरो राजा यथा भवति पार्वति ।
गुरूणां तत्र सर्वेषां राजाऽयं परमो गुरुः ॥ 288 ॥

मोहादिरहितः शांतो नित्यतृप्तो निराश्रयः ।
तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ॥ 289 ॥

सर्वकालविदेशेषु स्वतंत्रो निश्चलस्सुखी ।
अखंडैकरसास्वादतृप्तो हि परमो गुरुः ॥ 290 ॥

द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् ।
अज्ञानांधतमश्छेत्ता सर्वज्ञः परमो गुरुः ॥ 291 ॥

यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता ।
स्वयं भूयात् धृतिश्शांतिः स भवेत् परमो गुरुः ॥ 292 ॥

सिद्धिजालं समालोक्य योगिनां मंत्रवादिनाम् ।
तुच्छाकारमनोवृत्तिः यस्यासौ परमो गुरुः ॥ 293 ॥

स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् ।
यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ॥ 294 ॥

मौनी वाग्मीति तत्त्वज्ञो द्विधाऽभूच्छृणु पार्वति ।
न कश्चिन्मौनिनां लोभो लोकेऽस्मिन्भवति प्रिये ॥ 295 ॥

वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः ।
यतोऽसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ॥ 296 ॥

गुरुनामजपाद्देवि बहुजन्मार्जितान्यपि ।
पापानि विलयं यांति नास्ति संदेहमण्वपि ॥ 297 ॥

श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता ।
गुरुध्यानसमं कर्म नास्ति नास्ति महीतले ॥ 298 ॥

कुलं धनं बलं शास्त्रं बांधवास्सोदरा इमे ।
मरणे नोपयुज्यंते गुरुरेको हि तारकः ॥ 299 ॥

कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया ।
तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ॥ 300 ॥

गुरुरेको हि जानाति स्वरूपं देवमव्ययम् ।
तद्​ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ॥ 301 ॥

स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् ।
तपोजपादिकं देवि सकलं बालजल्पवत् ॥ 302 ॥

शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन ।
शक्तिं दैवमिति ज्ञात्वा विवदंति वृथा नराः ॥ 303 ॥

न जानंति परं तत्त्वं गुरुदीक्षापराङ्मुखाः ।
भ्रांताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ॥ 304 ॥

तस्मात्कैवल्यसिद्ध्यर्थं गुरुमेव भजेत्प्रिये ।
गुरुं विना न जानंति मूढास्तत्परमं पदम् ॥ 305 ॥

भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः ।
क्षीयंते सर्वकर्माणि गुरोः करुणया शिवे ॥ 306 ॥

कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः ।
मुच्यते पातकाद्घोरात् गुरुभक्तो विशेषतः ॥ 307 ॥

दुस्संगं च परित्यज्य पापकर्म परित्यजेत् ।
चित्तचिह्नमिदं यस्य तस्य दीक्षा विधीयते ॥ 308 ॥

चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः ।
द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ॥ 309 ॥

एतल्लक्षणयुक्तत्वं सर्वभूतहिते रतम् ।
निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ॥ 310 ॥

क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् ।
मंत्रदीक्षाभिधं सांगोपांगं सर्वं शिवोदितम् ॥ 311 ॥

क्रियया स्याद्विरहितां गुरुसायुज्यदायिनीम् ।
गुरुदीक्षां विना को वा गुरुत्वाचारपालकः ॥ 312 ॥

शक्तो न चापि शक्तो वा दैशिकांघ्रि समाश्रयेत् ।
तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम् ॥ 313 ॥

अत्यंतचित्तपक्वस्य श्रद्धाभक्तियुतस्य च ।
प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ॥ 314 ॥

रहस्यं सर्वशास्त्रेषु गीताशास्त्रमिदं शिवे ।
सम्यक्परीक्ष्य वक्तव्यं साधकस्य महात्मनः ॥ 315 ॥

सत्कर्मपरिपाकाच्च चित्तशुद्धिश्च धीमतः ।
साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ॥ 316 ॥

नास्तिकाय कृतघ्नाय दांभिकाय शठाय च ।
अभक्ताय विभक्ताय न वाच्येयं कदाचन ॥ 317 ॥

स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे ।
निंदकाय न वक्तव्या गुरुगीता स्वभावतः ॥ 318 ॥

सर्वपापप्रशमनं सर्वोपद्रववारकम् ।
जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे ॥ 319 ॥

श्रुतिसारमिदं देवि सर्वमुक्तं समासतः ।
नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे ॥ 320 ॥

बहुजन्मकृतात्पापादयमर्थो न रोचते ।
जन्मबंधनिवृत्त्यर्थं गुरुमेव भजेत्सदा ॥ 321 ॥

अहमेव जगत्सर्वमहमेव परं पदम् ।
एतद्​ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम् ॥ 322 ॥

अलं विकल्पैरहमेव केवलं
मयि स्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितं
स वंदनीयो गुरुरेव केवलम् ॥ 323 ॥

यस्यांतं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् ।
नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसो न च स्त्री ॥ 324 ॥

नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् ।
नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ॥ 325 ॥

नित्याय सत्याय चिदात्मकाय
नव्याय भव्याय परात्पराय ।
शुद्धाय बुद्धाय निरंजनाय
नमोऽस्तु नित्यं गुरुशेखराय ॥ 326 ॥

सच्चिदानंदरूपाय व्यापिने परमात्मने ।
नमः श्रीगुरुनाथाय प्रकाशानंदमूर्तये ॥ 327 ॥

सत्यानंदस्वरूपाय बोधैकसुखकारिणे ।
नमो वेदांतवेद्याय गुरवे बुद्धिसाक्षिणे ॥ 328 ॥

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ 329 ॥

नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ॥ 330 ॥

स्वतंत्राय दयाक्लुप्तविग्रहाय शिवात्मने ।
परतंत्राय भक्तानां भव्यानां भव्यरूपिणे ॥ 331 ॥

विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ 332 ॥

पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः ।
सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥ 333 ॥

श्रीगुरुं परमानंदं वंदे ह्यानंदविग्रहम् ।
यस्य सन्निधिमात्रेण चिदानंदाय ते मनः ॥ 334 ॥

नमोऽस्तु गुरवे तुभ्यं सहजानंदरूपिणे ।
यस्य वागमृतं हंति विषं संसारसंज्ञकम् ॥ 335 ॥

नानायुक्तोपदेशेन तारिता शिष्यसंततिः ।
तत्कृपासारवेदेन गुरुचित्पदमच्युतम् ॥ 336 ॥

[पाठभेदः -
अच्युताय नमस्तुभ्यं गुरवे परमात्मने ।
स्वारामोक्तपदेच्छूनां दत्तं येनाच्युतं पदम् ॥
]
अच्युताय नमस्तुभ्यं गुरवे परमात्मने ।
सर्वतंत्रस्वतंत्राय चिद्घनानंदमूर्तये ॥ 337 ॥

नमोऽच्युताय गुरवेऽज्ञानध्वांतैकभानवे ।
शिष्यसन्मार्गपटवे कृपापीयूषसिंधवे ॥ 338 ॥

ओमच्युताय गुरवे शिष्यसंसारसेतवे ।
भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने ॥ 339 ॥

गुरुनामसमं दैवं न पिता न च बांधवाः ।
गुरुनामसमः स्वामी नेदृशं परमं पदम् ॥ 340 ॥

एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
श्वानयोनिशतं गत्वा चांडालेष्वपि जायते ॥ 341 ॥

गुरुत्यागाद्भवेन्मृत्युः मंत्रत्यागाद्दरिद्रता ।
गुरुमंत्रपरित्यागी रौरवं नरकं व्रजेत् ॥ 342 ॥

शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि ।
तस्मात्सर्वप्रयत्नेन गुरोराज्ञां न लंघयेत् ॥ 343 ॥

संसारसागरसमुद्धरणैकमंत्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमंत्रम् ।
दारिद्र्यदुःखभवरोगविनाशमंत्रं
वंदे महाभयहरं गुरुराजमंत्रम् ॥ 344 ॥

सप्तकोटिमहामंत्राश्चित्तविभ्रमकारकाः ।
एक एव महामंत्रो गुरुरित्यक्षरद्वयम् ॥ 345 ॥

एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् ।
इदमेव परं तत्त्वं शृणु देवि सुखावहम् ॥ 346 ॥

गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः ।
रहस्यमिदमव्यक्तं न वदेद्यस्य कस्यचित् ॥ 347 ॥

न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी ।
गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ॥ 348 ॥

गुरुगीतामिमां देवि भवदुःखविनाशिनीम् ।
गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित् ॥ 349 ॥

रहस्यमत्यंतरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि ।
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः ॥ 350 ॥

यस्य प्रसादादहमेव सर्वं
मय्येव सर्वं परिकल्पितं च ।
इत्थं विजानामि सदात्मरूपं
तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ 351 ॥

अज्ञानतिमिरांधस्य विषयाक्रांतचेतसः ।
ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ॥ 352 ॥

इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीता समाप्त ॥

मंगलं
मंगलं गुरुदेवाय महनीयगुणात्मने ।
सर्वलोकशरण्याय साधुरूपाय मंगलम् ॥




Browse Related Categories: