॥ श्रीशंकराचार्यस्तवः ॥
श्रीशंकराचार्यवर्यं सर्वलोकैकवंद्यं भजे देशिकेंद्रम्
धर्मप्रचारेऽतिदक्षं योगिगोविंदपादाप्तसन्यासदीक्षम् ।
दुर्वादिगर्वापनोदं पद्मपादादिशिष्यालिसंसेव्यपादम् ॥1॥
(श्रीशंकराचार्यवर्यं)
शंकाद्रिदंभोलिलीलं किंकराशेषशिष्यालि संत्राणशीलम् ।
बालार्कनीकाशचेलं बोधिताशेषवेदांत गूढार्थजालम् ॥2॥
(श्रीशंकराचार्यवर्यं)
रुद्राक्षमालाविभूषं चंद्रमौलीश्वराराधनावाप्ततोषम् ।
विद्राविताशेषदोषं भद्रपूगप्रदं भक्तलोकस्य नित्यम् ॥3॥
(श्रीशंकराचार्यवर्यं)
पापाटवीचित्रभानुं ज्ञानदीपेन हार्दं तमो वारयंतम् ।
द्वैपायनप्रीतिभाजं सर्वतापापहामोघबोधप्रदं तम् ॥4॥
(श्रीशंकराचार्यवर्यं)
राजाधिराजाभिपूज्यं रम्यशृंगाद्रिवासैकलोलं यतीड्यम् ।
राकेंदुसंकाशवक्त्रं रत्नगर्भेभवक्त्रांघ्रिपूजानुरक्तम् ॥5॥
(श्रीशंकराचार्यवर्यं)
श्रीभारतीतीर्थगीतं शंकरार्यस्तवं यः पठेद्भक्तियुक्तः ।
सोऽवाप्नुयात्सर्वमिष्टं शंकराचार्यवर्यप्रसादेन तूर्णम् ॥6॥
(श्रीशंकराचार्यवर्यं)