ॐ अस्य श्रीविष्णुपञ्जरस्तोत्र महामन्त्रस्य नारद ऋषिः । अनुष्टुप् छन्दः । श्रीविष्णुः परमात्मा देवता । अहं बीजम् । सोहं शक्तिः । ॐ ह्रीं कीलकम् । मम सर्वदेहरक्षणार्थं जपे विनियोगः ।
नारद ऋषये नमः मुखे । श्रीविष्णुपरमात्मदेवतायै नमः हृदये । अहं बीजं गुह्ये । सोहं शक्तिः पादयोः । ॐ ह्रीं कीलकं पादाग्रे । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति मन्त्रः ।
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।
इति अङ्गन्यासः ।
अहं बीजं प्राणायामं मन्त्रत्रयेण कुर्यात् ।
ध्यानम् ।
परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् ।
सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥ 1 ॥
ॐ विष्णुपञ्जरकं दिव्यं सर्वदुष्टनिवारणम् ।
उग्रतेजो महावीर्यं सर्वशत्रुनिकृन्तनम् ॥ 2 ॥
त्रिपुरं दहमानस्य हरस्य ब्रह्मणो हितम् ।
तदहं सम्प्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ 3 ॥
पादौ रक्षतु गोविन्दो जङ्घे चैव त्रिविक्रमः ।
ऊरू मे केशवः पातु कटिं चैव जनार्दनः ॥ 4 ॥
नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः ।
उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥ 5 ॥
वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः ।
बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥ 6 ॥
कण्ठं रक्षतु वाराहः कृष्णश्च मुखमण्डलम् ।
माधवः कर्णमूले तु हृषीकेशश्च नासिके ॥ 7 ॥
नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः ।
कपोलौ केशवो रक्षेद्वैकुण्ठः सर्वतोदिशम् ॥ 8 ॥
श्रीवत्साङ्कश्च सर्वेषामङ्गानां रक्षको भवेत् ।
पूर्वस्यां पुण्डरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ 9 ॥
दक्षिणे नारसिंहश्च नैरृत्यां माधवोऽवतु ।
पुरुषोत्तमो वारुण्यां वायव्यां च जनार्दनः ॥ 10 ॥
गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः ।
आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ 11 ॥
सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपञ्जरः ।
विष्णुपञ्जरविष्टोऽहं विचरामि महीतले ॥ 12 ॥
राजद्वारेऽपथे घोरे सङ्ग्रामे शत्रुसङ्कटे ।
नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥ 13 ॥
डाकिनीप्रेतभूतेषु भयं तस्य न जायते ।
रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ 14 ॥
रक्षन्तु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः ।
जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥ 15 ॥
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥
दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चन्द्रमाः ॥ 16 ॥
पन्थानं दुर्गमं रक्षेत्सर्वमेव जनार्दनः ।
रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥ 17 ॥
स्त्रीहन्ता बालघाती च सुरापो वृषलीपतिः ।
मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥ 18 ॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ 19 ॥
आपदो हरते नित्यं विष्णुस्तोत्रार्थसम्पदा ।
यस्त्विदं पठते स्तोत्रं विष्णुपञ्जरमुत्तमम् ॥ 20 ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
गोसहस्रफलं तस्य वाजपेयशतस्य च ॥ 21 ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।
सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥ 22 ॥
जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ 23 ॥
इति श्रीब्रह्माण्डपुराणे इन्द्रनारदसंवादे श्रीविष्णुपञ्जरस्तोत्रम् ॥