शंभुस्वयंभुहरयो हरिणेक्षणानां
येनाक्रियंत सततं गृहकुंभदासाः ।
वाचां अगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ 2.1 ॥
स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्धकटाक्षवीक्षणैः ।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बंधनं स्त्रियः ॥ 2.2 ॥
भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितांताश्च हासाः ।
लीलामंदं प्रस्थितं च स्थितं च
स्त्रीणां एतद्भूषणं चायुधं च ॥ 2.3 ॥
क्वचित्सभ्रूभंगैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।
कुमारीणां एतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ 2.4 ॥
वक्त्रं चंद्रविकासि पंकजपरीहासक्षमे लोचने
वर्णः स्वर्णं अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
बक्षोजाविभकुंभविभ्रमहरौ गुर्वी नितंबस्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मंडनम् ॥ 2.5 ॥
स्मितकिंचिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पंदो वाचां अभिनवविलासोक्तिसरसः ।
गतानां आरंभः किसलयितलीलापरिकरः
स्पृशंत्यास्तारुण्यं किं इव न हि रम्यं मृगदृशः ॥ 2.6 ॥
द्रष्टव्येषु किं उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातवेष्वपि किं तद्आस्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तद्ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ 2.7 ॥
एताश्चलद्वलयसंहतिमेखलोत्थझंकार
नूपुरपराजितराजहंस्यः ।
कुर्वंति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ 2.8 ॥
कुंकुमपंककलंकितदेहा
गौरपयोधरकंपितहारा ।
नूपुरहंसरणत्पद्मा
कं न वशीकुरुते भुवि रामा ॥ 2.9 ॥
नूनं हि ते कविवरा विपरीतवाचो
ये नित्यं आहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ 2.10 ॥
नूनं आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ 2.11 ॥
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अंतर्वक्त्रं अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुंभाविमावित्थं
तन्वि वपुः प्रशांतं अपि तेरागं करोत्येव नः ॥ 2.12 ॥
मुग्धे धानुष्कता केयं अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ 2.13 ॥
सति प्रदीपे सत्यग्नौ सत्सु तारारवींदुषु ।
विना मे मृगशावाक्ष्या तमोभूतं इदं जगथ् ॥ 2.14 ॥
उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितं ओष्ठपल्लवं इदं कुर्वंतु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापं अधिकं रौम्आवलिः केन सा ॥ 2.15 ॥
मुखेन चंद्रकांतेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ 2.16 ॥
गुरुणा स्तनभारेण मुखचंद्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ 2.17 ॥
तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किं आकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वांछा
पुण्यैर्विना न हि भवंति समीहितार्थाः ॥ 2.18 ॥
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप
प्रारंभाः स्मरविजयदानप्रतिभुवः ।
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किं अपि विजयंते मृगदृशाम् ॥ 2.19 ॥
प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रंभार्द्राः स्मरोदयदायिनी
रहसि किं अपि स्वैरालापा हरंति मृगीदृशाम् ॥ 2.20 ॥
विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन
निवारयंती शशिनो मयूखान् ॥ 2.21 ॥
अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वंगसुखैकलोला ।
आलिंगितायां पुनरायताक्ष्यामाशास्महे
विग्रहयोरभेदम् ॥ 2.22 ॥
मालती शिरसि जृंभणं मुखे
चंदनं वपुषि कुंकुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ 2.23 ॥
प्राङ्मां एति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथोद्यमं अथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो
निःसंगांगविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ 2.24 ॥
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किंचिद्उन्मीलितानाम् ।
उपरि सुरतखेदस्विन्नगंडस्थलानामधर
मधु वधूनां भाग्यवंतः पिबंति ॥ 2.25 ॥
आमीलितनयनानां यः
सुरतरसोऽनु संविदं भाति ।
मिथुरैर्मिथोऽवधारितमवितथम्
इदं एव कामनिर्बर्हणम् ॥ 2.26 ॥
इदं अनुचितं अक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितंबिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ 2.27 ॥
राजस्तृष्णांबुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म यावद्विकसितनयनेंदीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ 2.28 ॥
रागस्यागारं एकं नरकशतमहादुःखसंप्राप्तिहेतुर्मोहस्योत्पत्ति
बीजं जलधरपटलं ज्ञानताराधिपस्य ।
कंदर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबंधं
लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥ 2.29 ॥
शृंगारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबांधवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 2.30 ॥
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलंकव्यासंग
व्यस्तधैर्यं कथं अमलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यद्इंदुद्युतिनिचयभृतो न स्युरंभोजनेत्राः
प्रेंखत्कांचीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ 2.31 ॥
सिद्धाध्यासितकंदरे हरवृषस्कंधावरुग्णद्रुमे
गंगाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरंगशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ 2.32 ॥
संसार तव पर्यंतपदवी न दवीयसी ।
अंतरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥ 2.33 ॥
दिश वनहरिणीभ्यो वंशकांडच्छवीनां
कवलं उपलकोटिच्छिन्नमूलं कुशानाम् ।
शकयुवतिकपोलापांडुतांबूलवल्लीदलम्
अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ 2.34 ॥
असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यंतां यद्वा ननु सकलदोषास्पदं इति ।
तथाप्येतद्भूमौ नहि परहितात्पुण्यं अधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यं अपरम् ॥ 2.35 ॥
एतत्कामफलो लोके यद्द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव संगमः ॥ 2.351 ॥
मात्सर्यं उत्सार्य विचार्य कार्यमार्याः
समर्यादं इदं वदंतु ।
सेव्या नितंबाः किं उ भूधराणामत
स्मरस्मेरविलासिनीनाम् ॥ 2.36 ॥
संसारे स्वप्नसारे परिणतितरले द्वे गती पंडितानां
तत्त्वज्ञानामृतांभःप्लवललितधियां यातु कालः कथंचित् ।
नो चेन्मुग्धांगनानां स्तनजघनघनाभोगसंभोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ 2.37 ॥
आवासः क्रियतां गंगे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ 2.38 ॥
किं इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुंदरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ 2.39 ॥
सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सप्तस्वपि तथ्यं एतत् ।
नान्यन्मनोहारि नितंबिनीभ्यो
दुःखैकहेतुर्न च कश्चिदन्यः ॥ 2.40 ॥
कांतेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुंग
पयोधरेति समुखांभोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितम् ॥ 2.41 ॥
स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ 2.42 ॥
तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ 2.43 ॥
नामृतं न विषं किंचिदेतां मुक्त्वा नितंबिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ 2.44 ॥
आवर्तः संशयानां अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रं अप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरंडं
स्त्रीयंत्रं केन सृष्टं विषं अमृतमयं प्राणिलोकस्य पाशः ॥ 2.45 ॥
नो सत्येन मृगांक एष वदनीभूतो न चेंदीवरद्वंद्वं
लोचनतां गत न कनकैरप्यंगयष्टिः कृता ।
किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मंदो जनः सेवते ॥ 2.46 ॥
लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरंति ।
रागो नलिन्या हि निसर्गसिद्धस्तत्र
भ्रम्त्येव वृथा षड्अंघ्रिः ॥ 2.47 ॥
संमोहयंति मदयंति विडंबयंति
निर्भर्त्स्यंति रमयंति विषादयंति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरंति ॥ 2.471 ॥
यदेतत्पूर्णेंदुद्युतिहरं उदाराकृति परं
मुखाब्जं तन्वंग्याः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्रुमफलं इदानीं अतिरसव्यतीतेऽस्मिन्
काले विषं इव भविष्य्त्यसुखदम् ॥ 2.48 ॥
उन्मीलत्त्रिवलीतरंगनिलया प्रोत्तुंगपीनस्तनद्वंद्वेनोद्गत
चक्रवाकयुगला वक्त्रांबुजोद्भासिनी ।
कांताकारधरा नदीयं अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण संत्यज्यताम् ॥ 2.49 ॥
जल्पंति सार्धं अन्येन पश्यंत्यन्यं सविभ्रमाः ।
हृद्गतं चिंतयंत्यन्यं प्रियः को नाम योषिताम् ॥ 2.50 ॥
मधु तिष्ठति वाचि योषितां हृदि हालाहलं एव केवलम् ।
अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ 2.51 ॥
अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुं औषधैश्चतुर्
वनिताभोगिग्रस्तं हि मंत्रिणः ॥ 2.52 ॥
विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशं अत्र भवांबुराशौ ।
येनाचिरात्तद्अधरामिषलोलमर्त्य
मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥ 2.53 ॥
कामिनीकायकांतारे कुचपर्वतदुर्गमे ।
मा संचर मनः पांथ तत्रास्ते स्मरतस्करः ॥ 2.54 ॥
व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परं अहं दृष्टो न तच्चक्षुषा ।
दृष्टे संति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ 2.55 ॥
इह हि मधुरगीतं नृत्यं एतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरिंद्रियैर्भ्राम्यमाणः
स्वहितकरणधूर्तैः पंचभिर्वंचितोऽस्मि ॥ 2.56 ॥
न गम्यो मंत्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शांतिकशतैः ।
भ्रमावेशादंगे कं अपि विदधद्भंगं असकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ 2.57 ॥
जात्य्अंधाय च दुर्मुखाय च जराजीर्णा खिलांगाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छंतीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ 2.58 ॥
वेश्यासौ मदनज्वाला
रूपेऽंधनविवर्धिता ।
कामिभिर्यत्र हूयंते
यौवनानि धनानि च ॥ 2.59 ॥
कश्चुंबति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञं अपि ।
चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ 2.60 ॥
धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिं एति मनो न येषाम् ॥ 2.61 ॥
बाले लीलामुकुलितं अमी मंथरा दृष्टिपाताः
किं क्षिप्यंते विरमविरम व्यर्थ एष श्रमस्ते ।
संप्रत्यन्ये वयं उपरतं बाल्यं आस्था वनांते
क्षीणो मोहस्तृणं इव जगज्जालं आलोकयामः ॥ 2.62 ॥
इयं बाला मां प्रत्यनवरतं इंदीवरदलप्रभा
चीरं चक्षुः क्षिपति किं अभिप्रेतं अनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकरज्वर
ज्वाला शांता तदपि न वराकी विरमति ॥ 2.63 ॥
किं कंदर्प करं कदर्थयसि रे कोदंडटंकारितं
रे रे कोकिल कौम्अलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुंबितचंद्रचूडचरणध्यानामृतं वर्तते ॥ 2.64 ॥
विरहेऽपि संगमः खलु
परस्परं संगतं मनो येषाम् ।
हृदयं अपि विघट्टितं चेत्
संगी विरहं विशेषयति ॥ 2.65 ॥
किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमंदिरम् ॥ 2.66 ॥
विरमत बुधा योषित्संगात्सुखात्क्षणभंगुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसंगमम् ।
न खलु नरके हाराक्रांतं घनस्तनमंडलं
शरणं अथवा श्रोणीबिंबं रणन्मणिमेखलम् ॥ 2.67 ॥
यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस्तस्य किं उ तैः ।
प्रियाणां आलापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ 2.68 ॥
यदासीदज्ञानं स्मरतिमिरसंचारजनितं
तदा दृष्टनारीमयं इदं अशेषं जगदिति ।
इदानीं अस्माकं पटुतरविवेकांजनजुषां
समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते ॥ 2.69 ॥
तावदेव कृतिनां अपि स्फुरत्येष
निर्मलविवेकदीपकः ।
यावदेव न कुरंगचक्षुषां
ताड्यते चटुललोचनांचलैः ॥ 2.70 ॥
वचसि भवति संगत्यागं उद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पंडितानाम् ।
जघनं अरुणरत्नग्रंथिकांचीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ 2.71 ॥
स्वपरप्रतारकोऽसौ
निंदति योऽलीकपंडितो युवतीः ।
यस्मात्तपसोऽपि फलं
स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ 2.72 ॥
मत्तेभकुंभदलने भुवि संति धीराः
केचित्प्रचंडमृगराजवधेऽपि दक्षाः ।
किंतु ब्रवीमि बलिनां पुरतः प्रसह्य
कंदर्पदर्पदलने विरला मनुष्याः ॥ 2.73 ॥
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेंद्रियाणां
लज्जां तावद्विधत्ते विनयं अपि समालंबते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतंति ॥ 2.74 ॥
उन्मत्तप्रेमसंरंभाद्
आरभंते यद्अंगनाः ।
तत्र प्रत्यूहं आधातुं
ब्रह्मापि खलु कातरः ॥ 2.75 ॥
तावन्महत्त्वं पांडित्यं
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नांगेषु
हतः पंचेषुपावकः ॥ 2.76 ॥
शास्त्रज्ञोऽपि प्रगुणितनयोऽत्यांतबाधापि बाढं
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारं उद्घाटयंती
वामाक्षीणां भवति कुटिला भ्रूलता कुंचिकेव ॥ 2.77 ॥
कृशः काणः खंजः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीं अन्वेति श्वा हतं अपि च हंत्येव मदनः ॥ 2.78 ॥
स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसंपत्करीं
ये मूढाः प्रविहाय यांति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुंडिताः
केचित्पंचशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ 2.79 ॥
विश्वामित्रपराशरप्रभृतयो वातांबुपर्णाशनास्तेऽपि
स्त्रीमुखपंकजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं ये भुंजते मानवास्तेषाम्
इंद्रियनिग्रहो यदि भवेद्विंध्यः प्लवेत्सागरे ॥ 2.80 ॥
परिमलभृतो वाताः शाखा नवांकुरकोटयो
मधुरविधुरोत्कंठाभाजः प्रिया पिकपक्षिणाम् ।
विरलविरसस्वेदोद्गारा वधूवदनेंदवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ 2.81 ॥
मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हंत सुधापि विषायते ॥ 2.82 ॥
आवासः किलकिंचितस्य दयितापार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामंडपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित्सुखयंति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ 2.83 ॥
पांथ स्त्रीविरहानलाहुतिकलां आतन्वती मंजरीमाकंदेषु
पिकांगनाभिरधुना सोत्कंठं आलोक्यते ।
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा
वांतिक्लांतिवितानतानवकृतः श्रीखंडशैलानिलाः ॥ 2.84 ॥
प्रथितः प्रणयवतीनां
तावत्पदं आतनोतु हृदि मानः ।
भवति न यावच्चंदनतरु
सुरभिर्मलयपवमानः ॥ 2.85 ॥
सहकारकुसुमकेसरनिकर
भरामोदमूर्च्छितदिग्अंते ।
मधुरमधुरविधुरमधुपे
मधौ भवेत्कस्य नोत्कंठा ॥ 2.86 ॥
अच्छाच्छचंदनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौम्उदी च ।
मंदो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयंति ॥ 2.87 ॥
स्रजो हृद्यामोदा व्यजनपवनश्चंद्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्संगः प्रतनु वसनं पंकजदृशो
निदाघर्तावेतद्विलसति लभंते सुकृतिनः ॥ 2.88 ॥
सुधाशुभ्रं धाम स्फुरद्अमलरश्मिः शशधरः
प्रियावक्त्रांभोजं मलयजरजश्चातिसुरभिः ।
स्रजो हृद्यामोदास्तदिदं अखिलं रागिणि जने
करोत्यंतः क्षोभं न तु विषयसंसर्गविमुखे ॥ 2.89 ॥
तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगंधिः ।
उन्नतपीनपयोधरभारा
प्रावृट्तनुते कस्य न हर्षम् ॥ 2.90 ॥
वियद्उपचितमेघं भूमयः कंदलिन्यो
नवकुटजकदंबामोदिनो गंधवाहाः ।
शिखिकुलकलकेकारावरम्या वनांताः
सुखिनं असुखिनं वा सर्वं उत्कंठयंति ॥ 2.91 ॥
उपरि घनं घनपटलं
तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कंदलधवला
दृष्टिं पथिकः क्व पातयति ॥ 2.92 ॥
इतो विद्युद्वल्लीविलसितं इतः केतकितरोः
स्फुरन्गंधः प्रोद्यज्जलदनिनदस्फूर्जितं इतः ।
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यंत्येते विरहदिवसाः संभृतरसाः ॥ 2.93 ॥
असूचिसंचारे तमसि नभसि प्रौढजलदध्वनि
प्राज्ञंमन्ये पतति पृषतानां च निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ 2.94 ॥
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कंपनिमित्तं आयतदृशा गाढं समालिंग्यते ।
जाताः शीकरशीतलाश्च मरुतोरत्यंतखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ 2.95 ॥
अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथांगप्रोद्भूतासह्य
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
संभोगक्लांतकांताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मंदपुण्यः ॥ 2.96 ॥
हेमंते दधिदुग्धसर्पिरशना मांजिष्ठवासोभृतः
काश्मीरद्रवसांद्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यंतरे
तांबूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ 2.97 ॥
प्रदुयत्प्रौढप्रियंगुद्युतिभृति विकसत्कुंदमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमंदारधाम्नि ।
येषां नो कंठलग्ना क्षणं अपि तुहिनक्षोददक्षा मृगाक्षी
तेसां आयामयामा यमसदनसमा यामिनी याति यूनाम् ॥ 2.98 ॥
चुंबंतो गंडभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कंचुकेषु स्तनभरपुलकोद्भेदं आपादयंतः ।
ऊरूनाकंपयंतः पृथुजघनतटात्स्रंसयंतोऽंशुकानि
व्यक्तं कांताजनानां विटचरितभृतः शैशिरा वांति वाताः ॥ 2.99 ॥
केशानाकुलयंदृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्नावेगकंपं शनैः ।
बारं बारं उदारसीत्कृतकृतो दंतच्छदान्पीडयन्
प्रायः शैशिर एष संप्रति मरुत्कांतासु कांतायते ॥ 2.100 ॥
यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि ।
रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः ॥ 2.101 ॥
वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।
शृंगारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥ 2.102 ॥
इति शुभं भूयात् ।
शृंगारशतकम्
भर्तृहरेः