View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

हरिवरासनम् (हरिहरात्मज अष्टकम्)

हरिवरासनं विश्वमोहनम्
हरिदधीश्वरं आराध्यपादुकम् ।
अरिविमर्दनं नित्यनर्तनम्
हरिहरात्मजं देवमाश्रये ॥ 1 ॥

शरणकीर्तनं भक्तमानसम्
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकम्
हरिहरात्मजं देवमाश्रये ॥ 2 ॥

प्रणयसत्यकं प्राणनायकम्
प्रणतकल्पकं सुप्रभांचितम् ।
प्रणवमंदिरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ 3 ॥

तुरगवाहनं सुंदराननम्
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ 4 ॥

त्रिभुवनार्चितं देवतात्मकम्
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिंतितप्रदम्
हरिहरात्मजं देवमाश्रये ॥ 5 ॥

भवभयापहं भावुकावकम्
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणम्
हरिहरात्मजं देवमाश्रये ॥ 6 ॥

कलमृदुस्मितं सुंदराननम्
कलभकोमलं गात्रमोहनम् ।
कलभकेसरीवाजिवाहनम्
हरिहरात्मजं देवमाश्रये ॥ 7 ॥

श्रितजनप्रियं चिंतितप्रदम्
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसम्
हरिहरात्मजं देवमाश्रये ॥ 8 ॥

शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ॥




Browse Related Categories: