| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
महाशाश्ता अनुग्रह कवचम् श्रीदेव्युवाच- महाव्याधि महाव्याल घोरराजैः समावृते । स्वधर्मविरतेमार्गे प्रवृत्ते हृदि सर्वदा । ईश्वर उवाच- अग्निस्तंभ जलस्तंभ सेनास्तंभ विधायकम् । महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् । किमतो बहुनोक्तेन यं यं कामयते द्विजः । कवचस्य ऋषिर्ब्रह्मा गायत्रीः छंद उच्यते । षडंगमाचरेद्भक्त्या मात्रया जातियुक्तया । अस्य श्री महाशास्तुः कवचमंत्रस्य । ब्रह्मा ऋषिः । गायत्रीः छंदः । महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ ह्रां इत्यादि षडंगन्यासः ॥ ध्यानम्- महाशास्ता शिरः पातु फालं हरिहरात्मजः । घ्राणं पातु कृपाध्यक्षः मुखं गौरीप्रियः सदा । कंठं पातु विशुद्धात्मा स्कंधौ पातु सुरार्चितः । भूताधिपो मे हृदयं मध्यं पातु महाबलः । सनीपं पातु विश्वेशः गुह्यं गुह्यार्थवित्सदा । जंघे पात्वंकुशधरः पादौ पातु महामतिः । इतीदं कवचं पुण्यं सर्वाघौघनिकृंतनम् । ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् । यं यं कामयते कामं तं तमाप्नोत्यसंशयः । इति श्री महाशास्ता अनुग्रह कवचम् ।
|