श्रीकृष्ण प्रार्थना
मूकं करोति वाचालं पंगु लंघयते गिरिम्।
यत्कृपा तमहं वंदे परमानंद माधवम्॥
नाहं वसामि वैकुंठे योगिनां हृदये न च।
मद्भक्ता यत्र गायंति तत्र तिष्ठामि नारद॥
अथ श्री कृष्ण कृपा कटाक्ष स्तोत्र ॥
भजे व्रजैकमंडनं समस्तपापखंडनं
स्वभक्तचित्तरंजनं सदैव नंदनंदनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम् ॥
मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम् ।
करारविंदभूधरं स्मितावलोकसुंदरं
महेंद्रमानदारणं नमामि कृष्ण वारणम् ॥
कदंबसूनकुंडलं सुचारुगंडमंडलं
व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम् ।
यशोदया समोदया सगोपया सनंदया
युतं सुखैकदायकं नमामि गोपनायकम् ॥
सदैव पादपंकजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नंदबालकम् ।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नंदलालसम् ॥
भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम् ।
दृगंतकांतभंगिनं सदा सदालिसंगिनं
दिने-दिने नवं-नवं नमामि नंदसंभवम् ॥
गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकंदनं नमामि गोपनंदनम् ।
नवीन गोपनागरं नवीनकेलि-लंपटं
नमामि मेघसुंदरं तडित्प्रभालसत्पटम् ॥
समस्त गोप मोहनं, हृदंबुजैक मोदनं
नमामिकुंजमध्यगं प्रसन्न भानुशोभनम् ।
निकामकामदायकं दृगंतचारुसायकं
रसालवेणुगायकं नमामिकुंजनायकम् ॥
विदग्ध गोपिकामनो मनोज्ञतल्पशायिनं
नमामि कुंजकानने प्रवृद्धवह्निपायिनम् ।
किशोरकांति रंजितं दृगंजनं सुशोभितं
गजेंद्रमोक्षकारिणं नमामि श्रीविहारिणम् ॥
फलशृति
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम् ।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
भवेत्स नंदनंदने भवे भवे सुभक्तिमान ॥