View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

भवानी भुजङ्ग प्रयात स्तोत्रं

षडाधारपङ्केरुहान्तर्विराज-
-त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ 1 ॥

ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराज-
-त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ 2 ॥

क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
-प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ 3 ॥

सुशोणाम्बराबद्धनीवीविराज-
-न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजिं भजेऽहम् ॥ 4 ॥

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
-पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ 5 ॥

शिरीषप्रसूनोल्लसद्बाहुदण्डै-
-र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
-ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ 6 ॥

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
-धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ 7 ॥

सुनासापुटं सुन्दरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब ॥ 8 ॥

चलत्कुन्तलान्तर्भ्रमद्भृङ्गबृन्दं
घनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
-विलासोल्लसद्दिव्यमूर्धानमीडे ॥ 9 ॥

इति श्रीभवानि स्वरूपं तवेदं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिम्भस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च ॥ 10 ॥

गणेशाभिमुख्याखिलैः शक्तिबृन्दै-
-र्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि ॥ 11 ॥

त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
-स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित् प्रपञ्चोऽस्ति सर्वं
सदानन्दसंवित्स्वरूपं भजेऽहम् ॥ 12 ॥

श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्धः किलाहम् ॥ 13 ॥

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धु-
-र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ 14 ॥

शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि ॥ 15 ॥

इतीमां महच्छ्रीभवानीभुजङ्गं
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ 16 ॥

भवानी भवानी भवानी त्रिवारं
उदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीतिः
कदाचित्कथञ्चित्कुतश्चिज्जनानाम् ॥ 17 ॥

॥ इति श्रीमच्छङ्कराचार्यविरचिता भवानी भुजङ्गं सम्पूर्णम् ॥




Browse Related Categories: