याज्ञवल्क्यकृत सरस्वती स्तवम्
याज्ञवल्क्य उवाच
कृपां कुरु जगन्मातर्-मामेवं हततेजसम् ।
गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ 1 ॥
ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्य प्रबोधिनीम् ।
ग्रन्थकर्तृत्व शक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥ 2 ॥
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ।
लुप्तं सर्वं दैव योगा-न्नवीभूतं पुनः कुरु ॥ 3 ॥
यथाङ्कुरं भस्मनि च करोति देवता पुनः ।
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ॥ 4 ॥
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ।
विसर्ग बिन्दुमात्रासु यदधिष्ठानमेवच ॥ 5 ॥
तदधिष्ठात्री या देवी तस्यै वाण्यै नमो नमः ।
व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥ 6 ॥
यया विना प्रसङ्ख्यावान् सङ्ख्यां कर्तुं न शक्यते ।
कालसङ्ख्या स्वरूपा या तस्यै देव्यै नमो नमः ॥ 7 ॥
भ्रम सिद्धान्तरूपा या तस्यै देव्यै नमो नमः ।
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरूपिणी ॥ 8 ॥
प्रतिभाकल्पनाशक्तिर्-या च तस्यै नमोनमः ।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ 9 ॥
बभूव मूकवत्सोस्पि सिद्धान्तं कर्तु मक्षमः ।
तदाष्जगाम भगवा-नात्मा श्रीकृष्ण ईश्वरः ॥ 10 ॥
उवाच स च तां स्तौहि वाणी मिष्टां प्रजापते ।
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ 11 ॥
चकार तत्प्रसादेन तदा सिद्धान्त मुत्तमम् ।
यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ॥ 12 ॥
बभूव मूकवत्सोस्पि सिद्धान्तं कर्तु मक्षमः ।
तदा तां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया ॥ 13 ॥
तत श्चकार सिद्धान्तं निर्मलं भ्रम भञ्जनम् ।
व्यासः पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा ॥ 14 ॥
मौनीभूत श्च सस्मार तामेव जगदम्बिकाम् ।
तदा चकार सिद्धान्तं तद्वरेण मुनीश्वरः ॥ 15 ॥
सम्प्राप्य निर्मलं ज्ञानं भ्रमान्ध्य ध्वंसदीपकम् ।
पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥ 16 ॥
तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य सत्कवीन्द्रो बभूव ह ॥ 17 ॥
तदा वेदविभागं च पुराणं च चकार सः ।
यदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम् ॥ 18 ॥
क्षणं तामेव सञ्चिन्त्य तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्दशास्त्रं च महेन्द्र श्च बृहस्पतिम् ॥ 19 ॥
दिव्य वर्ष सहस्रं च स त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम् ॥ 20 ॥
उवाच शब्द शास्त्रं च तदर्थं च सुरेश्वरम् ।
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ 21 ॥
ते च तां परिसञ्चित्य प्रवर्तन्ते सुरेश्वरीम् ।
त्वं संस्तुता पूजिता च मुनीन्द्रै र्मनु मानवैः ॥ 22 ॥
दैत्येन्द्रै श्च सुरैश्चापि ब्रह्म विष्णुशिवादिभिः ।
जडीभूत स्सहस्रास्यः पञ्चवक्त्र श्चतुर्मुखः ॥ 23 ॥
यां स्तोतुं कि महं स्तौमि तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्य श्च भक्तिनम्रात्म कन्धरः ॥ 24 ॥
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।
ज्योतीरूपा महामाया तेन दृष्टा7प्युवाच तम् ॥ 25 ॥
सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ।
याज्ञवल्क्य कृतं वाणी स्तोत्रमेतत्तु यः पठेत् ॥ 26 ॥
स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् ।
महा मूर्खश्च दुर्बुद्धिर्-वर्षमेकं यदा पठेत् ।
स पण्डितश्च मेधावी सुकवीन्द्रो भवेद्ध्रुवम् ॥ 27 ॥
इति श्री देवी भागवते महापुराणे नवमस्कन्धे
सरस्वतीस्तवं नाम पञ्चमोध्यायः ।
सरस्वती कटाक्ष सिद्धिरस्तु ।
इदं मयाकृतं पारायणं
श्रीसद्गुरु चरणारविन्दार्पणमस्तु ।