प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ 1
आत्रेय गोत्रजो अत्यन्त विनयो विश्वपावनः ।
चाम्पेय पुष्प सङ्काश श्चारण श्चारुभूषणः॥ 2
सत्यवाक् सत्ससङ्कल्प सत्यबन्धु स्सदादरः ।
सर्वरोग प्रशमन स्सर्व मृत्युनिवारकः ॥ 3
सिंहारूढं चतुर्भुजां खड्गं चर्म गदाधरम् ।
सोमपुत्रं महासौम्यं ध्यायेत् सर्वार्थ सिद्धदम् ॥ 4
बुधोबुधार्चित सौम्यसौम्यः चित्त श्शुभप्रदः ।
वरदाङ्कित मुद्रितं देवं तं सौम्यं प्रणमाम्यहम् ॥ 5