गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः ।
गुणी गुणवतां श्रेष्ठो गुरूणां गुरुरव्ययः ॥ 1 ॥
जेता जयन्तो जयदो जीवोऽनन्तो जयावहः ।
आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ 2 ॥
वाचस्पतिर्वशी वश्यो वरिष्ठो वाग्विचक्षणः ।
चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥ 3 ॥
बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः ।
सुराचार्यः सुराराध्यः सुरकार्यहितङ्करः ॥ 4 ॥
गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः ।
धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥ 5 ॥
धनुर्धरो दैत्यहन्ता दयासारो दयाकरः ।
दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥ 6 ॥
धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः ।
आङ्गीरसाब्जसञ्जातः आङ्गीरसकुलोद्भवः ॥ 7 ॥
सिन्धुदेशाधिपो धीमान् स्वर्णवर्णश्चतुर्भुजः ।
हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥ 8 ॥
पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः ।
काशपुष्पसमानाभः कलिदोषनिवारकः ॥ 9 ॥
इन्द्रादिदेवोदेवेशो देवताभीष्टदायकः ।
असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥ 10 ॥
भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः ।
धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥ 11 ॥
सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः ।
सर्वपापप्रशमनः स्वमतानुगतामरः ॥ 12 ॥
ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः ।
सदानन्दः सत्यसन्धः सत्यसङ्कल्पमानसः ॥ 13 ॥
सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः ।
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥ 14 ॥
समानाधिकनिर्मुक्तः सर्वलोकवशंवदः ।
ससुरासुरगन्धर्ववन्दितः सत्यभाषणः ॥ 15 ॥
नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः ।
नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥ 16 ॥
सदानन्द नमस्तेऽस्तु नमः पीडाहराय च ।
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥ 17 ॥
नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः ।
नमः प्रहृष्टनेत्राय विप्राणां पतये नमः ॥ 18 ॥
नमो भार्गवशिष्याय विपन्नहितकारिणे ।
नमस्ते सुरसैन्यानां विपत्तित्राणहेतवे ॥ 19 ॥
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥ 20 ॥
सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता जगत्पिता ॥ 21 ॥
विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवोधनदाता च भर्ताजीवो महाबलः ॥ 22 ॥
बृहस्पतिः काश्यपेयो दयावान् शुभलक्षणः ।
अभीष्टफलदः श्रीमान् शुभग्रह नमोऽस्तु ते ॥ 23 ॥
बृहस्पतिः सुराचार्यो देवासुरसुपूजितः ।
आचार्योदानवारिश्च सुरमन्त्री पुरोहितः ॥ 24 ॥
कालज्ञः कालृग्वेत्ता चित्तगश्च प्रजापतिः ।
विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥ 25 ॥
इति श्री बृहस्पति अष्टोत्तरशतनाम स्तोत्रम् ।