View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अरुणाचल अष्टकम्

दर्शनादभ्रसदसि जननात्कमलालये ।
काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले ॥ 1 ॥

करुणापूरितापाङ्गं शरणागतवत्सलम् ।
तरुणेन्दुजटामौलिं स्मरणादरुणाचलम् ॥ 2 ॥

समस्तजगदाधारं सच्चिदानन्दविग्रहम् ।
सहस्ररथसोपेतं स्मरणादरुणाचलम् ॥ 3 ॥

काञ्चनप्रतिमाभासं वाञ्छितार्थफलप्रदम् ।
मां च रक्ष सुराध्यक्षं स्मरणादरुणाचलम् ॥ 4 ॥

बद्धचन्द्रजटाजूटमर्धनारीकलेबरम् ।
वर्धमानदयाम्भोधिं स्मरणादरुणाचलम् ॥ 5 ॥

काञ्चनप्रतिमाभासं सूर्यकोटिसमप्रभम् ।
बद्धव्याघ्रपुरीध्यानं स्मरणादरुणाचलम् ॥ 6 ॥

शिक्षयाखिलदेवारि भक्षितक्ष्वेलकन्धरम् ।
रक्षयाखिलभक्तानां स्मरणादरुणाचलम् ॥ 7 ॥

अष्टभूतिसमायुक्तमिष्टकामफलप्रदम् ।
शिष्टभक्तिसमायुक्तान् स्मरणादरुणाचलम् ॥ 8 ॥

विनायकसुराध्यक्षं विष्णुब्रह्मेन्द्रसेवितम् ।
विमलारुणपादाब्जं स्मरणादरुणाचलम् ॥ 9 ॥

मन्दारमल्लिकाजातिकुन्दचम्पकपङ्कजैः ।
इन्द्रादिपूजितां देवीं स्मरणादरुणाचलम् ॥ 10 ॥

सम्पत्करं पार्वतीशं सूर्यचन्द्राग्निलोचनम् ।
मन्दस्मितमुखाम्भोजं स्मरणादरुणाचलम् ॥ 11 ॥

इति श्रीअरुणाचलाष्टकम् ॥




Browse Related Categories: