ओ-न्निध॑नपतये॒ नमः । निधनपतान्तिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ।
भवायः॒ नमः । भवलिङ्गाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।
आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।
परमाय॒ नमः । परमलिङ्गाय॒ नमः ।
एतत्सोमस्य॑ सूर्य॒स्य सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्र-म्पवि॒त्रम् ॥
स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वो-द्भ॑वाय॒ नमः॑ ॥
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒
बल॑प्रमथनाय॒ नम॒ स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ।
अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्य-स्सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ईशान-स्सर्व॑विद्या॒ना॒-मीश्वरसर्व॑ भूता॒नां॒
ब्रह्माधि॑पति॒-र्ब्रह्म॒णो-ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये-ऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः ॥
ऋ॒तग्ंऋ॒तग्ं स॒त्य-म्प॑र-म्ब्र॒ह्म॒ पु॒रुष॑-ङ्कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ ।
पुरु॑षो॒ वै रु॒द्रस्सन्म॒हो नमो॒ नमः॑ ।
विश्व॑-म्भू॒त-म्भुव॑न-ञ्चि॒त्र-म्ब॑हु॒धा जा॒त-ञ्जाय॑मान-ञ्च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ ।
क-द्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मग्ं हृ॒दे ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ ।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒क-म्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तर॒-म्मोत मा॒तर॑-म्प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो-ऽव॑धीर्ह॒विष्मं॑तो॒ नम॑सा विधेम ते ।
त्र्य॑म्बकं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मा-ऽमृता᳚त् ।
ये ते॑ स॒हस्र॑म॒युत॒-म्पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ।
प्राणाना-ङ्ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।
तेनान्नेना᳚प्याय॒स्व ॥
नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
त्वम॑ग्ने द्युभि॒स्त्व-मा॑शुशु॒क्षणि॒स्त्व-म॒द्भ्यस्त्व-मश्म॑न॒स्परि॑ । त्वं-वँने᳚भ्य॒-स्त्वमोष॑धीभ्य॒-स्त्व-न्नृ॒णा-न्नृ॑पते जायसे॒ शुचिः॒ ॥
शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व-स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व सुभू॒तेन॑ मे॒ सन्ति॑ष्ठस्व य॒ज्ञस्यद्भि॒र्मनु॒ सन्ति॑ष्ठस्वोप॑ ते यज्ञ॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नमः॑ ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ।