View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

पितृ स्तोत्रं 2 (गरुड पुराणम्)

रुचिरुवाच ।
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ 1 ॥

इंद्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ 2 ॥

मन्वादीनां च नेतारः सूर्याचंद्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान् पितॄनप्युदधावपि ॥ 3 ॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृतांजलिः ॥ 4 ॥

देवर्षीणां जनितॄंश्च सर्वलोक नमस्कृतान् ।
अक्षय्यस्य सदा दातॄन् नमस्येहं कृतांजलिः ॥ 5 ॥

प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृतांजलिः ॥ 6 ॥

नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयंभुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ 7 ॥

सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ 8 ॥

अग्निरूपांस्तथैवान्यान् नमस्यामि पितॄनहम् ।
अग्निसोममयं विश्वं यत एतदशेषतः ॥ 9 ॥

ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ 10 ॥

तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्तेऽस्तु प्रसीदंतु स्वधाभुजः ॥ 11 ॥

इति श्री गरुडपुराणे ऊननवतितमोऽध्याये रुचिकृत द्वितीय पितृ स्तोत्रम् ।




Browse Related Categories: