| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
पितृ स्तोत्रं 2 (गरुड पुराणम्) रुचिरुवाच । इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा । मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा । नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा । देवर्षीणां जनितॄंश्च सर्वलोक नमस्कृतान् । प्रजापतेः कश्यपाय सोमाय वरुणाय च । नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु । सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा । अग्निरूपांस्तथैवान्यान् नमस्यामि पितॄनहम् । ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः । तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः । इति श्री गरुडपुराणे ऊननवतितमोऽध्याये रुचिकृत द्वितीय पितृ स्तोत्रम् । |