View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री नृसिंह मंत्रराजपाद स्तोत्रम्

पार्वत्युवाच ।
मंत्राणां परमं मंत्रं गुह्यानां गुह्यमेव च ।
ब्रूहि मे नारसिंहस्य तत्त्वं मंत्रस्य दुर्लभम् ॥

शंकर उवाच ।
वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् ।
निनादत्रस्तविश्वांडं विष्णुमुग्रं नमाम्यहम् ॥ 1 ॥

सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम् ।
नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥ 2 ॥

पदावष्टब्धपातालं मूर्धाऽऽविष्टत्रिविष्टपम् ।
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् ॥ 3 ॥

ज्योतींष्यर्केंदुनक्षत्रज्वलनादीन्यनुक्रमात् ।
ज्वलंति तेजसा यस्य तं ज्वलंतं नमाम्यहम् ॥ 4 ॥

सर्वेंद्रियैरपि विना सर्वं सर्वत्र सर्वदा ।
यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम् ॥ 5 ॥

नरवत् सिंहवच्चैव यस्य रूपं महात्मनः ।
महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् ॥ 6 ॥

यन्नामस्मरणाद्भीताः भूतवेतालराक्षसाः ।
रोगाद्याश्च प्रणश्यंति भीषणं तं नमाम्यहम् ॥ 7 ॥

सर्वेऽपि यं समाश्रित्य सकलं भद्रमश्नुते ।
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥ 8 ॥

साक्षात् स्वकाले संप्राप्तं मृत्युं शत्रुगणान्वितम् ।
भक्तानां नाशयेद्यस्तु मृत्युमृत्युं नमाम्यहम् ॥ 9 ॥

नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् ।
त्यक्तदुःखोऽखिलान् कामानश्नंतं तं नमाम्यहम् ॥ 10 ॥

दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दासः इति मत्वा नमाम्यहम् ॥ 11 ॥

शंकरेणादरात् प्रोक्तं पदानां तत्त्वमुत्तमम् ।
त्रिसंध्यं यः पठेत्तस्य श्रीविद्याऽऽयुश्च वर्धते ॥ 12 ॥

इति श्रीशंकरकृत श्री नृसिंह मंत्रराजपद स्तोत्रम् ।




Browse Related Categories: