View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

पितृ स्तोत्रं 2 (बृहद्धर्म पुराणम्)

ब्रह्मोवाच ।
नमः पित्रे जन्मदात्रे सर्वदेवमयाय च ।
सुखदाय प्रसन्नाय सुप्रीताय महात्मने ॥ 1 ॥

सर्वयज्ञस्वरूपाय स्वर्गाय परमेष्ठिने ।
सर्वतीर्थावलोकाय करुणासागराय च ॥ 2 ॥

नमः सदाऽऽशुतोषाय शिवरूपाय ते नमः ।
सदाऽपराधक्षमिणे सुखाय सुखदाय च ॥ 3 ॥

दुर्लभं मानुषमिदं येन लब्धं मया वपुः ।
संभावनीयं धर्मार्थे तस्मै पित्रे नमो नमः ॥ 4 ॥

तीर्थस्नानतपोहोमजपादीन् यस्य दर्शनम् ।
महागुरोश्च गुरवे तस्मै पित्रे नमो नमः ॥ 5 ॥

यस्य प्रणाम स्तवनात् कोटिशः पितृतर्पणम् ।
अश्वमेधशतैस्तुल्यं तस्मै पित्रे नमो नमः ॥ 6 ॥

इदं स्तोत्रं पितृः पुण्यं यः पठेत् प्रयतो नरः ।
प्रत्यहं प्रातरुत्थाय पितृश्राद्धदिनेऽपि च ॥ 7 ॥

स्वजन्मदिवसे साक्षात् पितुरग्रे स्थितोऽपि वा ।
न तस्य दुर्लभं किंचित् सर्वज्ञत्वादि वांछितम् ॥ 8 ॥

नानापकर्म कृत्वाऽपि यः स्तौति पितरं सुतः ।
स धृवं प्रविधायैव प्रायश्चित्तं सुखी भवेत् ।
पितृप्रीतिकरैर्नित्यं सर्वकर्माण्यथार्हति ॥ 9 ॥

इति बृहद्धर्मपुराणांतर्गत ब्रह्मकृत पितृ स्तोत्रम् ।




Browse Related Categories: