अर्धकायं महावीर्यं चंद्रादित्य विमर्धनम् ।
सिंहिकागर्भ संभूतं तं राहुं प्रणमाम्यहम् ॥ 1 ॥
प्रणमामि सदा राहुं सर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं भक्तानामभय प्रदम् ॥ 2 ॥
शूर्पाकारासन स्थश्च गोमेधाभरणप्रियः ।
माषप्रियः काश्यपर्षि नंदनोभुजगेश्वरः ॥ 3 ॥
आरोग्यमायु रखिलांश्च मनोरथार्दान् ।
तमोरूप नमस्तुभ्यं प्रसादं कुरुसर्वदा ॥ 4 ॥
करालवदनं खड्ग चर्मशूल वरान्वितम् ।
नीलसिंहासनं ध्यायेत् राहुं तं च प्रशांतये ॥ 5 ॥