View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

नवग्रह मंगल श्लॊकाः (नवग्रह मंगलाष्टकम्)

भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यः सिंहपोऽर्कः समि-
-त्षट्त्रिस्थोऽदशशोभनो गुरुशशी भौमाः सुमित्राः सदा ।
शुक्रो मंदरिपुः कलिंगजनपश्चाग्नीश्वरौ देवते
मध्येवर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मंगलम् ॥ 1 ॥

चंद्रः कर्कटकप्रभुः सितनिभश्चात्रेयगोत्रोद्भव-
-श्चात्रेयश्चतुरश्रवारुणमुखश्चापे उमाधीश्वरः ।
षट्सप्ताग्नि दशैकशोभनफलो नोरिर्बुधार्कौप्रियौ
स्वामी यामुनजश्च पर्णसमिधः कुर्यात्सदा मंगलम् ॥ 2 ॥

भौमो दक्षिणदिक्त्रिकोणयमदिग्विंध्येश्वरः खादिरः
स्वामी वृश्चिकमेषयोस्तु सुगुरुश्चार्कः शशी सौहृदः ।
ज्ञोऽरिः षट्त्रिफलप्रदश्च वसुधास्कंदौ क्रमाद्देवते
भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात्सदा मंगलम् ॥ 3 ॥

सौम्यः पीत उदङ्मुखः समिदपामार्गोऽत्रिगोत्रोद्भवो
बाणेशानदिशः सुहृद्रविसुतः शांतः सुतः शीतगोः ।
कन्यायुग्मपतिर्दशाष्टचतुरः षण्णेत्रगः शोभनो
विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मंगलम् ॥ 4 ॥

जीवश्चांगिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः
पीतोऽश्वत्थसमिच्च सिंधुजनितश्चापोऽथ मीनाधिपः ।
सूर्येंदुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे
सप्तद्वे नवपंचमे शुभकरः कुर्यात्सदा मंगलम् ॥ 5 ॥

शुक्रो भार्गवगोत्रजः सितरुचिः पूर्वामुखः पूर्वदिक्
पांचालस्थ वृषस्तुलाधिपमहाराष्ट्राधिपौदुंबरः ।
इंद्राणीमघवा बुधश्च रविजो मित्रोर्क चंद्रावरी
षष्ठत्रिर्दशवर्जिते भृगुसुतः कुर्यात्सदा मंगलम् ॥ 6 ॥

मंदः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यपः
स्वामी नक्रसुकुंभयोर्बुधसितौ मित्रौ कुजेंदू द्विषौ ।
स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुर्धारकः
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मंगलम् ॥ 7 ॥

राहुः सिंहलदेशपोऽपि सतमः कृष्णांगशूर्पासनो
यः पैठीनसगोत्रसंभवसमिद्दूर्वामुखो दक्षिणः ।
यः सर्पः पशुदैवतोऽखिलगतः सूर्यग्रहे छादकः
षट्त्रिस्थः शुभकृच्च सिंहकसुतः कुर्यात्सदा मंगलम् ॥ 8 ॥

केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थित-
-श्चित्रांकध्वजलांछनो हि भगवान् यो दक्षिणाशामुखः ।
ब्रह्मा चैव तु चित्रगुप्तपतिमान् प्रीत्याधिदेवः सदा
षट्त्रिस्थः शुभकृच्च बर्बरपतिः कुर्यात्सदा मंगलम् ॥ 9 ॥

इति नवग्रह मंगल स्तोत्रम् ।




Browse Related Categories: